________________ पूर्वप्रत्यानुसारेणैव लिखितेयं प्रतिः किन्तु लेखकः प्राचीनलिपिज्ञानरहितो दृश्यते / अतोऽत्यन्ताशुद्धिमत्त्वाद् भ्रान्तिजनिकेयं प्रतिः / पाठलेखादिना भ्रमजनायादर्शभूतेयं प्रतिः / ताडपत्रीयझेरोक्षप्रतिना स्पष्टाक्षरबोधाभाव एवास्याः प्रतेरूपयोगोऽभवत् / पञ्चाशक-प्रकरणमूलप्रतिः 1. श्रीपट्टननगरस्थ ज्ञानभण्डागारे पा.ता.संपा. 69-1 क्रमाङ्किता ताडपत्रीया प्रतिः / अस्या उपयोगो मूलग्रन्थशुद्धिकरणाय कृतः / 2. श्रीजेसलमेरतीर्थे तपागच्छीय ताडपत्रीय ग्रन्थभाण्डागारस्य त.ता.१ क्रमाङ्किता प्रतिरप्युपयुक्ता, लिखितेयं वि. सं. 1115 इति / हस्तप्रतिगवेषणम् प्रकाशमानायाः टीकायाः शुद्धिकरणाय पट्टनपुर-स्तंभनपुर-भाण्डारकर ग्रन्थालय-पुण्यनगरीलीमडीनगर-ला.द.-कोबा-अमदावाद-ज्ञानमन्दिरादौ अन्यप्रति गवेषिता, संशोधनकार्यशीलमुनिवरा अपि पृष्टा, तथापि प्रयत्नाधिक्यत्वेऽपि यदा न प्राप्ताऽन्या प्रतिः, तदा जेसलमेरभाण्डागारप्राप्तप्रत्याधारेणैव टीका संशोधिता / संशोधनपद्धतिः पञ्चाशकटीकासंशोधने श्रीअभयदेवसूरीश्वररचितटीका बहुश उपयुक्ता, उपयुक्तस्थाने ( ) इति सज्ञितचिह्नमध्यवर्ति तेषां टीकेति ज्ञातव्यम्, उद्धारान्ते च 'अटी.' इति सङ्केतोऽपि न्यस्तः / टीकायां मूलगाथाप्रतीकमान्तरश्लोकञ्च घट्टगुर्वक्षरेण मुद्रितः / तथा ग्रन्थगतश्लोकानां यथाशक्याधारग्रन्थनामान्यपि निरूपितानि / ताडपत्रीयप्रतौ व्याकरणदृष्ट्या केचित् पाठा अशुद्धा इति ज्ञात्वा शुद्धिकृतास्तदुदाहीयते / (1) पञ्चा.क्रम-गाथाक्रमः अशुद्धपाठः शुद्धपाठः 1/40 अभिधास्यत अभिधास्ये 2 3/27 वन्दनाया वन्दनायाः 3/33 निरूपितव्या निरूपयितव्या (2) ताडपत्रीयप्रतौ तालव्यशकारस्थाने दन्त्यसकारोऽनेकशो दृश्यन्ते तदपि शुद्धिकृतम् / यथा - पञ्चाशक-गाथाक्रमः अशुद्धपाठः शुद्धपाठः 1/41 सान्ता शान्तः 1/43 सकासे सकाशे 1/43 शेषः सेषः