________________ एवमग्रेऽपि बोध्यम् / (3) यत्र यत्र पाठाः पूर्णतया न लब्धास्तत्र तत्रान्यग्रन्थाधारेण पाठा उद्धत्य सम्पूर्णीकृताः। (4) सन्दिग्धाऽस्पष्टपाठस्थानेऽस्माभिर्योग्यरीत्या स्पष्टीकृत्वा [ ] इति चिह्नमध्ये शुद्धपाठो निवेशितः / यथा 2/8 मातापितृप्रभृतीनाम् - (मातृपितृप्रभृतीनाम्) 8/50 मन्त्रपूर्वक (मन्त्रपूर्वकेण) इत्यादि / मूलग्रन्थस्य पाठभेदाः श्रीयशोभद्रसूरिणा टीकायां मूलतया व्याख्यातपदस्य मूलतयैव स्थापिता पाठान्तरतया गृहीतस्य च मूलगाथाटीकासमाप्तौ स्थापिता / यथा 1) 1/17 'वित्तादविरोहो' इति तु मूलम्, 'चित्तादविरोहो' इति तु पाठभेदः / 2) 3/5 'लिंगाण' इति मूलम्, लिंगा ण इति पाठभेदः / श्रीपञ्चाशकमूले श्रीआगमगाथा श्रीपञ्चाशकग्रन्थकृता श्रीपञ्चाशकमूलत्वनैव श्रीआवश्यकौ-घ-दशवैकाकण्पिण्डनियुक्तिविशेषावश्यकभाष्याद्यनेकागमगाथा सङ्ग्रथिता साधुसामाचारी-प्रायश्चितविधिनिरूपणे श्रीआवश्यकनियुक्तिगाथाः, शीलाङ्गाऽऽलोचनाविधिनिदर्शने दशवैकालिकनियुक्तिगाथाः पिण्डविधिज्ञापने पिण्डनियुक्तिगाथाः, पुनः प्रायश्चित्तविधिवर्णने ओघनियुक्तिगाथाः, सामायिकविधिनिरूपणे विशेषावश्यकभाष्यगाथाश्च ग्रन्थिता / एवं पञ्चसप्ततिसङ्ख्यकागमगाथाः पञ्चाशकमूलत्वेन गृहीत्वा तत्र तत्रागमिकविषयः स्पष्टीकृतः / पञ्चाशकप्रकरणस्य तत्पश्चिमवर्ती ग्रन्थेषु प्रभावः यतिगृहिधर्मात्मकं प्रकरणमिदम् / स्वोपज्ञपञ्चवस्तुप्रकरणेऽस्य ग्रन्थस्य शतसङ्ख्यकसटीकगाथासमूहो ग्रन्थकृता समुद्धृतः / अन्येष्वपि स्वरचितग्रन्थेषु श्रावकविधिप्रकरण-उपदेशपदविंशतिविंशिका-धर्मसङ्ग्रहण्यादीषु ग्रन्थेष्वस्य ग्रन्थस्यानेकगाथा दृश्यते / एवञ्च हारिभद्रीय वचनानि तत्पश्चाद्भाविभिरनेकमहापुरुषैः परमादरणीयतया स्वोपज्ञग्रन्थे गम्फितानि / यथाशक्य संक्षिप्तसचिका दर्श्यते / क्रमः ग्रन्थः रचयिता योगशास्त्रम् आ. हेमचन्द्रसूरिः प्रवचनसारोद्धारः आ. नेमिचन्द्रसूरिः दर्शनशुद्धिप्रकरणम् आ. देवभद्रसूरिः पाक्षिक सप्ततिका आ. श्रीप्रभसूरिः चैत्यवन्दनभाष्यम् आ. देवेन्द्रसूरिः प्रत्याख्यानभाष्यम् आ. देवेन्द्रसूरिः जीवानुशासनम् आ. देवसूरिः orm3w