SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ एवमग्रेऽपि बोध्यम् / (3) यत्र यत्र पाठाः पूर्णतया न लब्धास्तत्र तत्रान्यग्रन्थाधारेण पाठा उद्धत्य सम्पूर्णीकृताः। (4) सन्दिग्धाऽस्पष्टपाठस्थानेऽस्माभिर्योग्यरीत्या स्पष्टीकृत्वा [ ] इति चिह्नमध्ये शुद्धपाठो निवेशितः / यथा 2/8 मातापितृप्रभृतीनाम् - (मातृपितृप्रभृतीनाम्) 8/50 मन्त्रपूर्वक (मन्त्रपूर्वकेण) इत्यादि / मूलग्रन्थस्य पाठभेदाः श्रीयशोभद्रसूरिणा टीकायां मूलतया व्याख्यातपदस्य मूलतयैव स्थापिता पाठान्तरतया गृहीतस्य च मूलगाथाटीकासमाप्तौ स्थापिता / यथा 1) 1/17 'वित्तादविरोहो' इति तु मूलम्, 'चित्तादविरोहो' इति तु पाठभेदः / 2) 3/5 'लिंगाण' इति मूलम्, लिंगा ण इति पाठभेदः / श्रीपञ्चाशकमूले श्रीआगमगाथा श्रीपञ्चाशकग्रन्थकृता श्रीपञ्चाशकमूलत्वनैव श्रीआवश्यकौ-घ-दशवैकाकण्पिण्डनियुक्तिविशेषावश्यकभाष्याद्यनेकागमगाथा सङ्ग्रथिता साधुसामाचारी-प्रायश्चितविधिनिरूपणे श्रीआवश्यकनियुक्तिगाथाः, शीलाङ्गाऽऽलोचनाविधिनिदर्शने दशवैकालिकनियुक्तिगाथाः पिण्डविधिज्ञापने पिण्डनियुक्तिगाथाः, पुनः प्रायश्चित्तविधिवर्णने ओघनियुक्तिगाथाः, सामायिकविधिनिरूपणे विशेषावश्यकभाष्यगाथाश्च ग्रन्थिता / एवं पञ्चसप्ततिसङ्ख्यकागमगाथाः पञ्चाशकमूलत्वेन गृहीत्वा तत्र तत्रागमिकविषयः स्पष्टीकृतः / पञ्चाशकप्रकरणस्य तत्पश्चिमवर्ती ग्रन्थेषु प्रभावः यतिगृहिधर्मात्मकं प्रकरणमिदम् / स्वोपज्ञपञ्चवस्तुप्रकरणेऽस्य ग्रन्थस्य शतसङ्ख्यकसटीकगाथासमूहो ग्रन्थकृता समुद्धृतः / अन्येष्वपि स्वरचितग्रन्थेषु श्रावकविधिप्रकरण-उपदेशपदविंशतिविंशिका-धर्मसङ्ग्रहण्यादीषु ग्रन्थेष्वस्य ग्रन्थस्यानेकगाथा दृश्यते / एवञ्च हारिभद्रीय वचनानि तत्पश्चाद्भाविभिरनेकमहापुरुषैः परमादरणीयतया स्वोपज्ञग्रन्थे गम्फितानि / यथाशक्य संक्षिप्तसचिका दर्श्यते / क्रमः ग्रन्थः रचयिता योगशास्त्रम् आ. हेमचन्द्रसूरिः प्रवचनसारोद्धारः आ. नेमिचन्द्रसूरिः दर्शनशुद्धिप्रकरणम् आ. देवभद्रसूरिः पाक्षिक सप्ततिका आ. श्रीप्रभसूरिः चैत्यवन्दनभाष्यम् आ. देवेन्द्रसूरिः प्रत्याख्यानभाष्यम् आ. देवेन्द्रसूरिः जीवानुशासनम् आ. देवसूरिः orm3w
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy