________________ गाथा-३५-३८ २-दीक्षाविधि-पञ्चाशकम् 27 ज्ञानादिगुणयुतः खलु सम्यग्ज्ञानादिसम्पन्नः निरभिष्वङ्गो बाह्यद्रव्यनिस्पृहः, पदार्थरसिकश्चागमोक्तभावप्रीतियुक्तश्च, इत्येवं यतते प्रयत्नं विधत्ते / न पुनरन्योऽनधिकारित्वात्, गुरुरपि तादृश एवानुकूलत्वात् परितोषसम्पादनसमर्थः // 34 // साम्प्रतं दीक्षासम्प्राप्त्या सत्त्वानां प्रशंसनीयतामाह - धण्णाणमेयजोगो, धण्णा चेटुंति एयनीईए / धण्णा बहु मन्नन्ते, धण्णा जे न प्पदूसन्ति // 85 // 2/35 धन्यानामेतद्योगो दीक्षया सम्बद्धो गुरुयोगो वा / धन्याश्चेष्टन्ते एतन्नीत्या पूर्वोक्तया, धन्या बहु मन्यन्ते बहुमानविषयीकुर्वन्ति, धन्या ये न प्रदुष्यन्त्यस्यामिति गम्यते, चित्तविकारं नापद्यन्त इत्यर्थः // 35 // दीक्षानन्तरविधिमाह - दाणमह जहासत्ती, सद्धासंवेगकमजुयं नियमा। विहवाणुसारओ, तह जणोवयारो य उचिओ त्ति // 86 // 2/36 दानमथ यथाशक्ति शक्त्यनुरूपम् / श्रद्धासंवेगक्रमयुतं नियमाद्धर्मानुरागमोक्षाभिलाषप्रदेयानुपूर्वीयुक्तम्, नियमान्नियोगेन कर्त्तव्यम् / विभवानुसारतो विभवापेक्षया, तथा जनोपचारश्च लोकपूजारूपः, उचित इति योग्यतावैचित्र्येण // 36 / / अस्या एव लिङ्गमाह - अहिगयगुणसाहम्मियपीईबोहगुरुभत्तिवुड्डी य / लिंगं अव्वभिचारी, पइदियहं सम्मदिक्खाए // 87 // 2/37 अधिकृतगुणाश्च सार्मिकप्रीतिश्च बोधश्च गुरुभक्तिश्चाधिकृतगुणसार्मिकप्रीतिबोधगुरुभक्तयस्तासां प्रत्येकं वृद्धिश्च, लिङ्गं चिह्नम् अव्यभिचार्यविसंवादि, प्रतिदिवसं प्रतिदिनम्, सम्यग्दीक्षायाः शोभनदीक्षायाः // 37 // अधिकृतगुणवृद्धिः कथं भवतीत्याह - परिसुद्धभावओ तह, कम्मखओवसमजोगओ होइ / अहिगयगुणवुड्डी खलु, कारणओ कज्जभावेणं // 88 // 2/38 परिशुद्धभावतो जीवसम्बन्धिविशुद्धादध्यवसायाद् वीर्यकृतात् तथा कर्मक्षयोपशमयोगतो भावसहकारिणो भावावस्थानहेतोः [भवति जायते अटी.] अधिकृतगुणवृद्धिः