SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम्-६ 292 दुष्करेणापि दण्डेन हित्वा शारीरनिग्रहम् / इति ब्रुवाणं तं यक्षः साकूतः प्रोक्तवानिदम् // 22 // किं देहनिग्रहादन्यं सोढुं शक्नोषि निग्रहम् / बाढं शक्तोऽस्मि तेनोक्तं ततो यक्षो व्यचिन्तयत् / / 23 / / दुष्करस्यापि कार्यस्य करणेऽस्य मनः क्षमम् / ज्ञात्वा चैवं नृपस्तेन विज्ञप्तोऽसौ यथोदितम् // 24 // राज्ञाऽप्युक्तं यथा तेन पात्री तैलातिपूरिता / भ्रमयित्वा पुरे कृत्स्ने आनेतव्याऽस्मदन्तिके // 25 // यद्येकोऽपि ततो बिन्दुः पतेद भूम्यां ततो वधः / कार्यस्तस्य ततो यक्षो नृपादेशं न्यवेदयत् / / 26 / / श्रेष्ठिपुत्रोऽपि राज्ञोक्तमभ्युपागच्छदादृतः / कृच्छ्राण्यपि हि कुर्वन्ति जीवितव्याय देहिनः // 27|| ततस्तस्य नृपस्तैलपूर्णपात्रीप्रधारिणः / निर्गच्छतो निजाद् गेहादुत्खातासिभटै शम् / / 28 / / उत्त्रासं कारयामास प्रेक्षाश्चातिमनोहराः / प्रनटन्नाटिकोपेताः कामहासादिदीपिकाः // 29 / / ततोऽसौ मानसक्षोभसंपादनपटीयसि / सत्यपि प्रौढविघ्नौघे जीविताशावशीकृतः // 30 // अप्रमादविशेषेण तैलपात्रीं वणिक्सुतः / अस्रस्तबिन्दुकां राज्ञो निनाय चरणान्तिके // 31 / / ततश्चैवं महाकष्टे कृते तेन नराधिपः / प्रेरयामास तं श्रेष्ठिसूनुं सूनृतभाषया // 32 // त्वयैकमृत्युभीतेन यथेदृक्षाऽतिदुष्करा / सौम्याप्रमत्तताऽकारि तथाऽन्ये लघुकर्मकाः // 33 // अनन्तमरणत्रस्तास्तां सेवन्ते विशेषतः / अशक्यपरिहारोऽतः प्रमाद इति ते वृथा // 34 // युग्मम् हिंसा युक्तेति ते बुद्धिर्याऽसावपि न संगता / अन्यथा त्वं कथं भीतो वधात् कष्टं प्रपन्नवान् ? // 35 // श्रुत्वैवं स वणिक्सूनुरनुशास्ति महीपतेः / प्रपेदे भावतो जैनं शासनं पापनाशनम् // 36 / / इति // 14/29 // (9) राधावेधदृष्टान्तौ आसीदिन्द्रपुर नाम नगरं गुरुकं गुणैः / तत्राभवच्छ्रियामिन्द्र इन्द्रदत्तो महीपतिः // 1 // प्रीतिपात्रकलत्राणां तस्य द्वाविंशतिः सुताः / बभूवुर्भूमिपालस्य प्राणेभ्योऽप्यतिवल्लभाः // 2 // अन्या भार्याऽभवत् तस्य भूपस्यामात्यपुत्रिका / सा च तेन परं दृष्टा पाणिग्राहं प्रकुर्वता // 3 // अथान्यदा कदाचित् सा ऋतुस्नाताऽवलोकिता। राज्ञा पृष्टाश्च पार्श्वस्था यथैषा कस्य? का च भोः? // 4 // त ऊचुर्देव! देवी ते ततो राजा तया सह / रात्रिमेकामुवासाथ तस्या गर्भोऽभवत् तदा // 5 // सा च पूर्वममात्येन भणिताऽऽसीद्यदा तव / गर्भो भूतो भवेद्भद्रे ! तदा त्वं मे निवेदयेः // 6 // ततः सा गर्भसंभूतिं राजसंवासवासरम् / मुहूर्तं राजजल्पं च पितुः सर्वं न्यवेदयत् / / 7 / / सत्यंकाराय तत्सर्वं व्यलिखत् सोऽपि पत्रके / सम्यक् तां पालयामास काले चाजनि दारकः / / 8 / / तद्दिने दासरूपाणि जजुश्चत्वारि तद्गृहे। अग्निकः पर्वतकश्च बहुली सागरस्तथा / / 9 / / सुरेन्द्रदत्त इत्येषा राजसूनोः कृताऽभिधा / कलासूरेरसौ पार्श्वे कलाः काले गृहीतवान् // 10 // गृह्णतश्च कलास्तस्य चक्रिरे तान्युपद्रवान् / न चासौ भाविभद्रत्वान्नृपसूनुर्व्यजीगणत् // 11 // ते च द्वाविंशतिः पुत्रा ग्राह्यमाणाः कलाः किल / निघ्नन्ति स्म कलाचार्यं गालीस्तस्य तथा ददुः // 12 // सूरिणा
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy