________________ // अष्टादशं भिक्षुप्रतिमा-पञ्चाशकम् // स्थितास्थितकल्पप्रतिपादितगुणव्यवस्थितानामेव प्रतिमाकल्पयोग्यतोपपत्तेस्तत्प्रत्यासत्त्या प्रतिमाकल्पप्रतिपादनायाह - नमिऊण वद्धमाणं, भिक्खुप्पडिमाण लेसओ किंपि / वोच्छं सुत्ताएसा, भव्वहियट्ठाएँ पयडत्थं // 847 // 18/1 नत्वा नमस्कृत्य, कल्याण-विजयाभ्यां वर्धमानं भगवन्तम्, भिक्षुप्रतिमानां लेशतः सक्षेपेण, किमपि किञ्चिद्, वक्ष्येऽभिधास्ये, सूत्रादेशादागमादेशाद् भव्यहितार्थाय भव्यहितप्रयोजनाय, प्रकटार्थं परिस्फुटार्थम् // 1 // बारस भिक्खूपडिमा, ओहेणं जिणवरेहिँ पण्णत्ता / सुहभावजुया काया, मासादीया जतो भणियं // 848 // 18/2 द्वादश भिक्षुप्रतिमाः समयप्रसिद्धाः, ओघेन सामान्येन, जिनवरैर्भगवद्भिः, प्रज्ञप्ताः कथिताः शुभभावयुताः कायाः शरीराणि, मासादिका मास आदिर्यासां ताः, तथा, यतो यस्माद्, भणितमुक्तम् / / 2 / / यदुक्तं तदाह - मासादी सत्तंता, पढमाबितितइयसत्तराइदिणा / अहराइ एगराई, भिक्खूपडिमाण बारसगं // 849 // 18/3 मासादयः प्रतिमाः, सप्तान्ताः सप्तमासान्ताः, सप्त भवन्ति, प्रथमैकेन मासेन / द्वितीया द्वाभ्याम् / तृतीया त्रिभिः / चतुर्थी चतुभिः / पञ्चमी पञ्चभिः / षष्ठी षड्भिः / सप्तमी सप्तभिः र्मासैः। अष्टमी पुनः प्रथमसप्तरात्रिदिना / नवम्यपि द्वितीयसप्तरात्रिदिना / दशम्यपि तृतीयसप्तरात्रिदिना / एकैकाः सप्तभिर्दिवसैः परिपूर्णा भवन्ति / अहोरात्रिकीऽअहोरात्रद्वयेन एकरात्रिः, एकरात्रिकी रात्रिमात्रेण, भिक्षुप्रतिमानां द्वादशमेतद् भवति [1. पढमा-बिइ-तइय-सत्तराइदिण त्ति-सप्तानामुपरि प्रथमा-द्वितीया तृतीया च सप्त रात्रिंदिवानि यस्यां सा / अ.टी. 2. अहश्च रात्रिश्च-तयोः समाहारः, अहोरात्रं दिवसनिशं, तस्य द्वयम् युगलम् इति अहोरात्रद्वयं दिवसः निशा च इति द्वे एव / ] // 3 //