SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ गाथा-४६-४९ 228 १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् अथिरो उ होइ इयरो, सहकारिवसेण न उण तं हणइ / जलणा जायइ उण्हं, वज्जं न उ चयइ तत्तं पि // 840 // 17/46 जुम्मं। एवंविधानामपि ऋजुजडादीनामपि इह प्रक्रमे कल्पे मनुष्यलोके, चरणंचारित्रम्, दृष्टमुपलब्धं केवलज्ञानचक्षुषा, त्रिलोकनाथैर्लोकत्रयस्वामिभिः / योग्यानां प्रव्रज्योचितानाम्, स्थिरः प्रतिष्ठितः, भावोऽध्यवसायः, यस्मादेतेषामृजुजडादीनां शुद्धस्तु शुद्ध एव सन् भवति // 45 / / __ अस्थिरस्त्वप्रतिष्ठितरूपः, कदाचित्कः, भवतीतरोऽशुद्धः, सहकारिवशेन द्रव्यादिसामग्रीकर्मोदयसामर्थ्येन न पुनस्तं योग्यस्थिरभावं हन्ति विनाशयति, तदुच्छेदापादनेन / दृष्टान्तमाहज्वलनाद् वह्नः जायते भवति उष्णं वज्रं पार्थिवविकाररूपम्, न तु नैव, त्यजति सर्वथा मुञ्चति, तत्त्वमपि स्वरूपमपि. यथा काष्ठादयो ज्वलनसम्पर्काद भस्मसाद भवन्ति. नैवं वज्रम भस्मसाद्भावानापत्तेः // 46 // इय चरणम्मि ठियाणं, होइ अणाभोगभावओ खलणा / न उ तिव्वसंकिलेसा, णऽवेति चारित्तभावोऽवि // 841 // 17/47 इत्येवं चरणे चारित्रे स्थितानां व्यवस्थितानां भवति जायते / अनाभोगभावतोऽपरिज्ञानभावेन, स्खलना क्रियाप्रबन्धाऽप्रवृत्तिरूपा, न तु नैव तीव्रसङ्क्लेशाद् द्वादशकषायोदयजन्यात् नापैति नापगच्छति चारित्रभावोऽपि चारित्रपरिणामोऽपि, किन्तु अनवस्थित एवास्ते // 47 // चरिमाण वि तह णेयं, संजलणकसायसंगयं चेव / माइट्ठाणं पायं, असई पि हु कालदोसेणं // 842 // 17/48 चरिमाणामपि चरमतीर्थकरसाधूनामपि, तथा तेन रूपेण, ज्ञेयं ज्ञातव्यं चरणम्, सज्वलनकषायसङ्गतमेव-अल्पतरकषायसमन्वितमेव / माइट्ठाणं ति [मातरः स्त्रियोऽभिधीयन्ते, तासां स्थानम्, अटी.] मातृस्थानं मायास्थानं माया प्रायो बाहुल्येन केषाञ्चिन्न सम्भवत्येवेति प्रायोग्रहणम्, असकृदनेकशोऽपि। हुर्वाक्यालङ्कारे, कालदोषेण दुःषमास्वभावेन // 48 // व्यतिरेकसारमाह - इहरा उ न समणत्तं, असुद्धभावाउ हंदि विण्णेयं / लिंगंमि वि भावेणं, सुत्तविरोहा जओ भणियं // 843 // 17/49
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy