________________ गाथा-४२-४५ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् 227 तदेवाह - पुरिमाण दुव्विसोज्झो, चरिमाणं दुरणुपालओ कप्पो / मज्झिमगाण जिणाणं, सुविसोज्झो सुहणुपालो य // 836 // 17/42 [पूर्वेषाम्] पूर्व(आद्य, अटी.)तीर्थकरसाधूनाम्, दुर्विशोध्यो दुर्विशोधनीयः चरमतीर्थकरसाधूनां दुःखेनानुपाल्यत इति दुरनुपालः, स एव दुरनुपालकः कल्पः प्रस्तुतः / मध्यमकानां जिनानां मध्यमतीर्थकरसाधूनाम्, सुविशोध्यः सुशोधनीयः, सुखेनानुपाल्यत इति सुखानुपालश्च // 42 // उज्जुजडा पुरिमा खलु, णडादिणायाउ होति विण्णेया / वक्कजडा पुण चरिमा, उजुपण्णा मज्झिमा भणिया // 837 // 17/43 ऋजवश्च ते जडाश्च ऋजुजडाः ।पूर्वे पूर्वतीर्थकरसाधवः / खलु नटादिज्ञातात् आदिशब्दात् प्रेक्षणकादि-परिग्रहः, भवन्ति विज्ञेयाः, ऋजुत्व-जडत्वाभ्यां तेषां हीदं जडत्वं-यन्नटाद्यवलोकेन निषिद्धे, प्रेषणकाद्यप्रतिषिद्धं मन्यमानाः पश्यन्त्येव, गुरुभिस्तु रागद्वेषादिमूलत्वेन तस्मिन्नेव निवारिते, स्वच्छाऽऽशयत्वात् तदपि तथाविधं मन्यमानाः परिहरन्तीति तेषामृजुत्वं / वक्रः जडाः पुनश्चरमतीर्थकरसाधवः, सामान्येन जडत्वाद् दोषाऽऽसेवनेऽपि भूयसामृजुत्वपरिणामाभावात् वक्रत्वोपपत्तेः / ऋजुप्रज्ञा / प्रजानन्तीति प्रज्ञाः / ‘आतश्चोपसर्ग'इति जानातेः प्रोपसर्गपूर्वात्कर्तरि कः / जडप्रतिपक्षभूतगुणपरिग्रहश्चानेनोक्तः, ऋजुत्वं शुभभावत्वम्, ऋजवश्च ते प्रज्ञाश्चेति समासः, मध्यमा मध्यमतीर्थकरसाधवः भणिताः कथिताः // 43 // कालसहावाउ च्चिय, एतो एवंविहा उ पाएणं / होंति अओ उ जिणेहि, एएसि इमा कया मेरा // 838 // 17/44 कालस्वभावादेव तावत्कालसामर्थ्यादेव, एते ऋजु-जडादयः / एवंविधास्तु व्यावर्णितस्वभावा एव. प्रायेण बाहल्येन. भवन्ति जायन्ते तत्तत्कालविभागाः अतस्त अत एव हेतोः जिनर्भगवद्भिरनुग्रहप्रभृतैः एतेषामृजुजडादीनां कृत्वा, विहिता इयमुक्तस्वरूपा मेरा मर्यादा // 44 // (1. मेर-अटी.) एवंविहाण वि इहं, चरणं दिलृ तिलोगणाहेहिं / जोगाण थिरो भावो, जम्हा एएसि सुद्धो उ॥८३९॥ 17/45