________________ 220 १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् गाथा-१४-१७ __अमहाधनैरमहामूल्यैः भिन्नैश्चखण्डितैः, आचेलक्यमचेलकत्वम्, इहाधिकारे भवति सम्भवति, वस्त्रैराच्छादनैः लोकागमनीत्या लोकन्यायेनाऽऽगमन्यायेन च, अचेलकत्वं प्रस्तुतम्, प्रत्ययतः प्रतीतेः, लोकेऽनुचितवस्त्रे(स्य) सद्भावे तद् व्यवहियते, आगमेऽपि तद्विषयप्रतिबन्धाभावेन ततः प्रतीतमेवैतत् // 13 // उद्देसियं तु कम्मं, एत्थं उद्दिस्स कीरते तयं ति / एत्थ वि इमो विभागो, णेओ संघादवेक्खाए // 808 // 17/14 औद्देशिकंतु कर्म आधाकर्म, अत्र प्रस्तावे उद्देश्य मनसिकृत्य, क्रियते विधीयते, तकदिति तदौद्देशिकम् / अत्राप्ययं विभागोऽर्थव्याख्यारूपः, ज्ञेयो ज्ञातव्यः, सङ्घाद्यपेक्षया // 14 // एतदेव व्याचष्टे - संघादुद्देसेणं, ओघादीहिं समणाइ अहिकिच्च / कडमिह सव्वेसि चिय, न कप्पई पुरिमचरिमाणं // 809 // 17/15 सङ्घायुद्देशेन, आदिशब्दात् कुलगणादिपरिग्रहः, ओघादिभिः समयोक्तप्रकारैः, श्रमणादीन्, आदिशब्दाच्छ्रमण्यादिसकलविशेषग्रहः, अधिकृत्याऽङ्गीकृत्य कृतं निर्वर्तितम् इह स्थितकल्पप्रस्तावे, सर्वेषामेव निरवशेषाणामेव, विवक्षितश्रमणाद्यपेक्षया, न कल्पते पूर्वचरमजिनसाधूनां प्रस्तुतानाम् // 15 // / मज्झिमगाणं तु इयं, कडं जमुद्दिस्स तस्स चेव त्ति / नो कप्पइ सेसाण उ, कप्पइ तं एस मेर त्ति // 810 // 17/16 मध्यमकानां मध्यमतीर्थकरसाधूनां त्विदं प्रक्रान्तौदेशिकं कृतं निर्वतितं यं विवक्षितं उद्दिश्याधिकृत्य, तस्य चैवेति तस्यैव विवक्षितसाध्वादेः नो नैव कल्पते,शेषाणां तु साध्वादीनां कल्पते समर्थीभवति तदौदेशिकम्, न शेषाणां परिहार्यमितिभावः / एषा मेरा मर्यादेति ऋजुप्रज्ञत्वादेषाम्, प्रज्ञापनीयत्वाच्च लोकानामियं व्यवस्था // 16 // सेज्जायरो त्ति भण्णति, आलयसामी उ तस्स जो पिंडो। सो सव्वेसि न कप्पति, पसंगगुरुदोसभावेण // 811 // 17/17 शय्यातर इति भण्यत अभिधीयते, आलयस्वामी तु साध्वाऽऽश्रयस्वामी तस्य यः पिंडः, स सर्वेषामाश्रयान्तरस्थितसाधूनां न कल्पते प्रसङ्गगुरुदोषभावेन प्रकृष्टः सङ्गः प्रसङ्गस्तस्मिन्, [प्रसङ्गो] गुरवश्च ते दोषाश्च [तेषां भावः], तेन तद्भावेन तत्सत्तया // 17 //