________________ 219 गाथा-९-१३ १७-स्थिताऽस्थितकल्पं-पञ्चाशकम् / सेसेसुं ठियकप्पो, मज्झिमगाणं पि होइ विण्णेओ / चउसु ठिता छसु अठिता, एत्तो च्चिय भणियमेयं तु // 803 // 17/9 / शेषेषु चतुर्षु स्थानेषु, स्थितकल्पो मध्यमकानामपि मध्यमतीर्थकरसाधूनामपि भवति विज्ञेयः / चतुर्पु स्थिताः षट्स्वस्थिताः ।अत एव पूर्वोक्तार्थवशादेव भणितमेतत्तु प्रदेशान्तरे // 9 // सिज्जायरपिंडंमि य, चाउज्जामे य पुरिसजेटे य / कितिकम्मस्स य करणे, ठिइकप्पो मज्झिमाणं पि // 804 // 17/10 __ शय्यातरपिण्डे च चातुर्यामे च पुरुषज्येष्ठे च कृतिकर्मणश्च करणे स्थितकल्पो व्यवस्थितरूपः, मध्यमानापि मध्यमतीर्थकरसाधूनामपि // 10 // आचेलक्यादिदशस्थानस्वरूपप्रतिपादनायाह - दुविहा एत्थ अचेला, संतासंतेसु होति विण्णेया / तित्थगरऽसंतचेला, संताऽचेला भवे सेसा // 805 // 17/11 द्विविधा द्विप्रकाराः, अत्र स्थितकल्पविचारे, अचेलाः स्वरूपतः शास्त्रोक्ताः, सदसत्सु विद्यमानाविद्यमानेषु वस्त्रेष्विति गम्यते / भवन्ति विज्ञेया ज्ञातव्याः / तीर्थकरा असच्चेलाः शक्रोपनीतदेवदूष(ष्य)परिभोगासम्भवात् / इतरकालं सदचेलाः सद्भिरपि वस्त्रैः अचेला भवेयुः, शेषाः साधवः // 11 // आचेलको धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स / मज्झिमगाण जिणाणं, होइ सचेलो अचेलो य // 806 // 17/12 आचेलक्यहेतुत्वाद् आचेलक्यो धर्मः पूर्वस्य च युगादिदेवस्य पश्चिमस्य च महावीरस्वामिनो जिनस्य साधूनाम्, मध्यमकानां जिनानां भवति सचेलोऽचेलश्चाऽऽगमनीत्या। श्वेतवस्त्रधारणं हि पूर्व-पश्चिमसाधूनामाचेलक्यमुक्तम् / मध्यमसाधूनां पुनरेषणीयरक्तनीलादिवर्णोपेतपट[कम्बला] दिधारणमपि शास्त्रेऽनुज्ञातम्, अतः सचेलत्वं पुरुषभूमिकापेक्षया च भगवद्भिरूपदिश्यमानं तवयमप्यदुष्टम् // 12 // कथं पुनः पूर्व-पश्चिमानां साधूनामाचेलक्यं वस्त्रधारणेऽपि सम्भवतीत्याहअमहद्धण भिन्नेहि य, आचेलक्कमिह होइ वत्थेहिं / लोगागमनीतीए, अचेलगत्तं तु पच्चयतो // 807 // 17/13