SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ // षोडशं प्रायश्चित्तविधि-पञ्चाशकम् // आलोचनाविधानानन्तरं साधो क्वचिदपराधे प्रायश्चित्तसम्भवात्तद्भेदनिरुपणायाह - नमिऊण वद्धमाणं, पायच्छित्तं समासतो वोच्छं / आलोयणादि दसहा, गुरूवएसाणुसारेणं // 745 // 16/1 नत्वा मनो-वाक्-कायप्रह्वतया प्रणम्य, वर्धमानं सदैव केवलज्ञानादिभिः, स्वगुणैर्नहीय मानमवस्थितत्वेऽपि तेषां ___ माङ्गलिकत्वादेवमभिधानमायुषावर्ध[क]श्चेति यथा, [वद्धमाणं ति - गर्भगतेन भगवता ज्ञातकुलं विशेषेण धनेन वधितं तेन तस्य नाम कृतं वर्धमान इति / - आव. नियुक्ति गाथा 1091 हारिभद्रीयवृत्तिः / ] प्रायःचित्तशुद्धिस्मादिति प्रायश्चित्तम् / 'चिति सज्ञानशुद्धयोः '[ ]इति पाठात् / भावमूलान्ततः शुद्ध्यवाप्तेर्नान्यत इति प्रायोविशेषणम् / समासतः सक्षेपेण वचनविस्तरमुत्सृज्य, मूलागमे तस्य बहुधाभिधानात्, वक्ष्ये प्रतिपादयिष्यामि, आलोचनादि वक्ष्यमाणं दशधा दशविधं गुरूपदेशानुसारेण स्वगुरूपदेशानुवृत्त्या // 1 // प्रायश्चित्तं दशधोक्तं तदाह - आलोयण पडिक्कमणे, मीस 'विवेगे तहा 'विउस्सग्गे / तव "छेय मूल अणवठ्ठया य पारंचिए चेव // 746 // 16/2 आलोचनमालोचनार्हम्, प्रतिक्रमणं प्रतिक्रमणार्हम्, मिश्रं तदुभयार्हम्, विवेकः परित्यागः तथा व्युत्सर्गः कायोत्सर्गः तपो बाह्याभ्यन्तरभेदम् / छेदः पर्यायच्छेदः / पञ्चकादिक्रमेण मूलं सर्वपर्यायोच्छेदः अनवस्थाप्यता च व्रतेषु, अकृततपःकर्मणः, पारञ्चिकं चैव, लिङ्गक्षेत्रकालतपोभेदेन पर्यन्तवत्तिप्रायश्चित्तपारगमनात्, न ततः परमन्यदस्ति // 2 // प्रायश्चित्तनिरुक्ताभिधानायाह - पावं छिंदति जम्हा, पायच्छित्तं ति भण्णए तेण / पाएण वा वि चित्तं, सोहयती तेण पच्छित्तं // 747 // 16/3 पापमशुभं छिनत्ति कृन्तति यस्मात् पापच्छिदिति भण्यते निगद्यते तेन तस्माद्धेतोः प्रायेण वापि चित्तं शोधयति क्रियां च, तेन प्रायश्चित्तमित्युच्यते // 3 //
SR No.035335
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthan
Publication Year2014
Total Pages355
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy