________________ 159 वइमेत्तं निव्विसयं, दोसाय मुस त्ति एव विण्णेयं / कुसलेहिं वयणाओ, वइरेगेणं जओ भणियं // 564 // 12/20 वाङ्मानं वचनमात्रं निर्विषयमभिधेयशून्यं दोषाय दोषार्थं भवति / 'मृषा' इत्येव विज्ञेयं, कुशलैर्बुद्धिमद्भिः, वचनादागमाद् व्यतिरेकेण यतो भणितमुक्तम् // 20 // आवस्सिया उ आवस्सिएहिं सव्वेहिं जुत्तजोगस्स / एयस्सेसो उचिओ, इयरस्स न चेव नत्थि त्ति // 565 // 12/21 आवश्यिका त्वावश्यकैनित्यकर्त्तव्यैः सर्वैर्युक्तयोग्यस्य युक्तोत्साहस्य एतस्य प्रस्तुतस्य, एष वाग्व्यापारः, उचितो योग्यः, इतरस्य उत्साहविकलस्य न चैवोचितः, अनुचित इत्यर्थः / तदर्थो नास्तीति कृत्वा // 21 // उक्ता आवश्यिका, अधुना निषीधिका [नैषेधिकी-अटी.]आहएवोग्गहप्पवेसे, निसीहिया तह निसिद्धजोगस्स / एयस्सेसो उचिओ, इयरस्स न चेव नत्थि ति // 566 // 12/22 एवमवग्रहप्रवेशे वसत्यादिप्रवेशे, निषीधिका समाचारी, तथा निषिद्धयोगस्य आगमोक्तप्रकारनिषिद्धसावधव्यापारस्य, एतस्य साधोः एष निषीधिकावाग्व्यापारः उचितो योग्यः इतरस्यानिषिद्धयोगस्य न चैवोचितः नास्तीति कृत्वा, तदर्थाभावादिति भावः // 22 // किमेवं प्रयत्नवत एव निषीधिकोच्यत इत्याह - गुरुदेवोग्गहभूमीऍ जत्तओ चेव होति परिभोगो / इट्ठफलसाहगो सइ, अणिट्ठफलसाहगो इहरा // 567 // 12/23 गुरुदेवावग्रहभूमेः समयप्रसिद्धायाः, यत्नत एव प्रयत्नादेव भवति परिभोगः, तदनुप्रवेशरूप इष्टफलसाधकः, अभिप्रेतफलनिवर्त्तकः, सदा सर्वकालम् / अनिष्टफलसाधकोऽनिष्टफलविधायी इतरथाऽन्यथा गुरुदेवावग्रहभूमेः परिभोग इति सम्बन्धः // 23 / / अमुमेवार्थं समर्थयन्नाह एत्तो ओसरणादिसु, दंसणमेत्ते गयादिओसरणं / सुव्वइ चेइयसिहराइएसु सुस्सावगाणं पि // 568 // 12/24 एतस्मादेव हेतोः परिभोगयत्नाख्याद्, अवसरणादिषु समवसरणादिषु तीर्थकरगतेष्टादिशब्दा