________________ 118 ९-यात्राविधान-पञ्चाशकम् गाथा-५-८ तस्या जिनयात्राया विधानं तु विधिश्च दानादि वर्तते // 4 // (1. उ. अटी.) एतदेव सप्रपञ्चं व्याचष्टे - दाणं तवोवहाणं', सरीरसक्कार मो जहासत्ति / उचितं च गीतवाइय, थुतिथोत्ता पेच्छणादी य // 399 // 9/5 दारगाहा। दानं वितरणं तपउपधानं तपःकर्म शरीरसत्कारश्च शरीरविभूषा च / मो इति निपातो / यथाशक्ति न तद्धान्याधिक्याभ्याम्, सर्वं दानादि कर्तव्यमिति शेषः / उचितं च योग्यं च गीतवादित्रमिति प्राकृतत्वाद् लुप्विभक्तिकम् / स्तुतिस्तोत्राणि प्रसिद्धानि प्रेक्षणादि प्रसिद्धम् // 5 // पूर्वोक्तमेव वस्तु विवरीतुमाह - दाणं अणुकंपाए, दीणाणाहाण सत्तिओ णेयं / तित्थंकरणातेणं, साहूण य पत्तबुद्धीए // 400 // 9/6 दानमनुकम्पया दया दीनाऽनाथानां दीनाः क्षीणविभवाः, समानेऽपि दीनत्वे शक्तिसामर्थ्यरहिता अनाथाः तेषां / शक्तितः स्वशक्त्यनुसारेण ज्ञेयं ज्ञातव्यम् / तीर्थकरज्ञातेन यथा भगवान् समस्तदैत्यामराचितो गृहवासराज्यमुत्सृजन् सर्वेषामनुकम्पादाने प्रवर्तते संवत्सरं यावत् / तदुदाहरणेन साधूनां च यात्रासमागतानां पात्रबुद्ध्या पात्रधिया दानमिति वर्तते // 6 / / उक्तं दानम्, तपउपधानमाह - एकासणाइ नियमा, तवोवहाणं पि एत्थ कायव्वं / तत्तो भावविसुद्धी, नियमा विहिसेवणा चेव // 401 // 9/7 एकाशनादिकभक्तादि / नियमान्नियमेन, तपउपधानमपि तपःकर्मापि अत्र यात्रायां कर्तव्यम्। ततः तपसः, भावविशुद्धिः, अध्यवसायविशुद्धिराहारलाघवा-ऽप्रमादाभ्याम्, नियमाद्विधिसेवना चैव कर्तव्योपदेशसेवा चैव जायते / / 7 / / उक्तं तपउपधानमधुना शरीरसत्कारमाह - वत्थविलेवणमल्लादिएहिं विविहो सरीरसक्कारो / कायव्वो जहसत्तिं, पवरो देविंदणाएणं // 402 // 9/8 वस्त्र-विलेपन-माल्यादिकैलॊकसिद्धैः विविधो अनेकप्रकारः, शरीरसत्कारः शरीरविभूषारूपः कर्तव्यो विधेयः, यथाशक्ति न शक्त्यतिक्रमेण / प्रवरः सर्वोत्तमः, देवेन्द्रज्ञातेन