________________ गाथा-७-८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् 105 भिनिवृत्तायां शुद्धबुद्धौ शास्त्रानुसारिविमलप्रज्ञायां सत्याम्, कृत्यमिदं बिम्बकारणं मनुजानां पुरुषाणाम्, प्रायो धर्माधिकारिण एत इति ख्यापनार्थं मनुजग्रहणम्, अन्यथा देवानामपि कृत्यमिदं वर्तते बोधिलाभफलत्वात् तथाश्रुतेः / जन्मफलं जीवितफलम् एतावदत्र नान्यदस्तीति भावः // 3 // ___ गुणप्रकर्षो गुणपर्यन्तः जिनाः खलु जिना एव, तेषां जिनानां बिम्बस्य प्रतिकृतेः दर्शनमपि चक्षुर्विषयकरणमपि शुभं शुभहेतुत्वाद् वर्तते / कारणेन करणहेतुभावेन तस्य तु बिम्बस्य अनुग्रह उपकार आत्मनः परमः प्रधानः // 4 // ___ मोक्षपथस्वामिनां सम्यग्दर्शनज्ञानचारित्राभिधानमोक्षमार्गाधिपतीनां मोक्षार्थमपवर्गार्थम् उद्यतेनोद्यमवता कुशलेन बुद्धिमता तद्गुणबहुमानादिषु मोक्षपथस्वामिनां गुणबहुमानादिष्वान्तरप्रीतिभक्तिपूजादिषु यतितव्यं प्रवर्तितव्यं सर्वप्रयत्नेन सर्वादरेण // 5 // __ तद्गुणबहुमानाज्जिनगुणबहुमानात् तथा शुभभावेन विचित्रशुभाध्यवसायेनोत्तरोत्तरप्रकर्षवर्तिना बध्यते स्वीक्रियते नियमान्नियमेन कर्म शुभानुबन्धं पुण्यानुबन्धिपुण्यमित्यर्थः / तस्योदयात् सर्वसिद्धिरिति सर्वकार्यनिष्पत्तिः // 6 // इय सुद्धबुद्धिजोगा, काले संपूइऊण कत्तारं / विभवोचियमप्पेज्जा, मोल्लं अणहस्स सुहभावो // 351 // 8/7 इति शुद्धबुद्धियोगादेवंविधविमलमतिसम्बन्धात् तद्व्यापाराद् वा / काले शुभे सम्पूज्य समभ्यर्च्य भोजन-वस्त्र-पत्र-पुष्प-फलादिभिः कर्तारं शिल्पिनं विभवोचितं विभावानुरूपम् अर्पयेत् समर्पयेद् दद्यात्, मूल्यमनघस्याऽव्यसनस्य शिल्पोपाध्यायस्य शुभभावः कारयिता, प्रवर्धमानशुभपरिणाम उदारतया // 7|| व्यतिरेकगुणावहं विधिमाह - तारिसयस्साभावे, तस्सेव हितत्थमज्जुओ नवरं / नियमेज्ज बिंबमोल्लं, जं उचियं कालमासज्ज // 352 // 8/8 तादृशस्योपाध्यायस्य अभावे तस्यैव शिल्पिनः हितार्थं हितनिमित्तम् उद्यतः प्रयत: नवरं केवलं नियमयेन्निकाचयेद् बिम्बमूल्यं प्रतिमामूल्यम् / त्रिस्कन्धकादिक्रमेणादिमध्यावसानेषु कर्मणः, यदुचितं यद् योग्यं कालं संव्यवहारिकं आसाद्याश्रित्य यथाऽसौ शिल्पी न पीड्यते // 8 //