SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ रेवती-दान-समालोचना ननु मांसमव रोगप्रकृत्यनुकूलं किं न स्यादित्याहमांसस्योष्णस्वभावत्वात्तस्मात्पित्तप्रकोपनम् । वर्चसि लोहिताधिक्यं, तेन स्यान्न तदौषधम् ॥२७॥ मांसस्येति-शीतजन्यरोगाणामुष्णस्वभावौषधं रोगशमकं भवेन्न तु शीतस्वभावौषधम् । एवमुष्णताजन्यरोगाणां शीतस्वभावौषधं शान्तिजनकं न तूष्णस्वभावौषधम् । तत्तु प्रत्युत रोगवर्धकमेव भवेदिति प्राकृतजनोऽपि जानाति । वैद्यकशब्दसिन्ध्वाख्यकोषे ७०१ पृष्ठे मत्स्यशब्दप्रसंगे ७३९ पृष्ठे च मांसशब्दप्रसंगे मत्स्यमांसस्य साधारणमांसस्य च रक्तपित्तजनकत्वेनोष्णस्वभाव. वत्त्वं दर्शितम् । तथा चोष्णरोगाणां वर्धकमेव मांसं भवति न तुशमकमिति सिद्धम् । श्रीमन्महावीरस्वामिशरीरे पित्तज्वरलोहितपतनदाहानामुष्णव्याधिरूपत्वादुष्णस्वभावमांसेन तेषां वृद्धिः स्याद्वा हानिः स्यादिति निर्णेतुं शक्यत एष, तेनेति पित्तप्रकोपेन लोहिताधिक्येन च मांसमोषधं कथमपि भवितुं नाहति । ततोऽस्मिन्रोगप्रसङ्ग कपोतादिशब्दानां मांसार्थकत्वकरणे प्रसङ्गासंगतिर्दोषः स्यादिति ।।२७॥ वृत्तिकारस्य श्रीमदभयदेवसूरेरत्र कऽभिप्राय इति दयतइत्यं सत्सु प्रमाणेषु, मांसार्थबाधकेष्वपि । वृत्तिकारेण तत्पक्षः, किमर्थ नैव खण्डितः ॥२८॥ इत्थमितिः-इत्थममुना प्रकारेणोक्तप्रकारेणेत्यर्थः । मांसाथैति-कपोतादिशब्दानां मांसार्थे तात्पर्य नास्तीति मांसार्थनिषेधे बाधकप्रमाणानि दर्शितानि तेषु प्रमाणेषु विद्यमानेषु व्याख्याकारShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035225
Book TitleRevati Dan Samalochna
Original Sutra AuthorN/A
AuthorRatnachandra Maharaj
PublisherShwetambar Sthanakwasi Jain Vir Mandal
Publication Year1935
Total Pages112
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy