________________
रेवती-दान-समालोचना गतमेकं वस्तु तद्भिन्नानां रुधिरादीनामपि शरीरे समावेशात् । शरीञ्चावयवी मासं तु तदवयवः, अवयविनोऽनेकावयवसमष्टिरूपत्वात्तदाह पक्षाचंगेति पक्षाः पिच्छानि
आदिशब्देन चरणचञ्च्वादयस्तेषामंगानां समष्टिरेव शरीरं, पिच्छादिसहितं पक्षिशरीरं न क्वापि केनचिदप्युपस्क्रियते मुज्यते वा मांसमात्रमेव भुज्यते न तु पिच्छादिकम् । ततश्च शरीरशब्दस्य द्विशब्दस्य च प्रयोग एवात्र मांसार्थबाधकः सिद्ध्यति न तु तत्साधकः । तत्प्रयोगस्य सिद्धान्ते कथं सार्थक्यमित्यग्रे दर्शयिष्यामः ॥ २५ ॥
रोगचिकित्सायाः प्रकृतिपरीक्षा मूलम्
प्रकृतिश्चिन्त्यते सुज्ञैरादावौषधरोगयोः अन्यथा हानतास्थाने, वृद्धी रोगस्य जायते ॥२६॥
प्रकृतिरिति-सुझैवैद्यैरादौ रोगश्चिकित्स्यते । रोगस्य का प्रकृतिः, कः समयः, पुरुषस्य कोदृशमाचरणं, का प्रकृतिरिति निरीक्षणानन्तरं कीदृशप्रकृतिकस्यौषधस्य सेवनमारोग्यजनक भवेदिति सम्यक पर्यालोच्य भैषज्यं ददाति सुवैद्यस्तदा रोगस्य हानिर्भवति । अन्यथा- कृति विज्ञानं विना यद्योषधं दीयते तदा रोगहानिस्तु दूरे तिष्ठति प्रत्युत हानिस्थाने तवृद्धिरेव स्यादिति सामान्यनियमः । अत्र महावीरस्वामिनाऽपि तन्नियमानुसारेणैव रोगस्वभावप्रतिपक्षिस्वभावकमौषधमानेतुमादिष्टमिति ।। २६ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com