________________
२८
रेवती-दान-समालोचना
तुहं पिया सुरा सीहू, मेरो य महूणि य । पाइनो मि जलतीओ वसाओ रुहिराणि य ॥१६ । ७१॥
मृगापुत्रः स्वमातरं नरकदुःखं वर्णयति । तदुःखस्य पूर्वभवाचरितमदिरापानमांसभक्षणत्वप्रयोज्यत्वं दर्शयति । एतैः सर्वचनैर्मदिरापानमांसभक्षणस्यैकान्तदुष्टत्वं प्रतिपाद्यते ॥ १८ ॥ किञ्चपिशितं भुञ्जमानानां, मनुजानामनार्यता। सूत्रे सूत्रकृतांगे त्वाद्रकुमारेण भाषिता ॥१६॥
पिशितमिति--सूयगडाभिधे द्वितीयेऽङ्गसूत्रे षष्टाध्ययने बौद्धार्द्रकुमारयोः संवादे मांसभक्षणस्य कर्मबन्धाहेतुत्वं मन्यमानान् बौद्धान्प्रति वक्त्याद्रकुमारः"तं भुजमाणा पिसितं पभूतं, णो उवलिप्पामो वयं रएणं। इच्चेवमाहंसु अणज्जधम्मा, अणारिया बालरसेसु गिद्धा ॥३८॥ जे यावि भुजंति तहप्पगार, सेवन्ति ते पावमजाणमाणा। मणं न एयं कुसला करेंति, वाया'वि एसा बुहया उमिच्छा ॥३६॥"
पिशिताशिनोऽनार्या बाला रसगृद्धा अनार्यधर्माण इति विशे'षणचतुष्टयेन मांसाशनस्यैकान्तनिन्द्यत्वं दर्शितम् । कुशलपुरुषास्तु तदिच्छामपि न कुर्वन्ति । मांसस्य निर्दोषत्वप्रतिपादनपरा वाण्यपि मिथ्यैवेत्येतत्सर्व वर्णनं मांसाहारनिषेधायालमस्ति । एतट्टीकाकारेण प्रकृतविषये शास्त्रान्तरीयप्रमाणान्यप्युपन्यस्तानि तानि चेमानि--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com