________________
१०
-
अपरिमेयोऽनेकनरप्रवरभुजाग्राह्यः, अनेकपुरुषव्यामैरप्यप्रतिमेयस्थौल्य इत्यर्थः, तथा कुसुमभरेण - पुष्पसम्भारेण सम्ईषदनमन्त्यः पत्रसमृद्धाः ' पत्तसमिद्धति खंधपित्तलमिति वचनात् विशाला - विस्तोर्णाः शालाः - शाखा यस्य स कुसुमभरसमवनमत्पत्रलविशालशालः, तथा मधुकरीणां भ्रमराणां चये गणा 'गुमगुमायिता ' गुमगुमायन्ति स्म, कर्मकर्तृत्वाकर्तरि क्तप्रत्ययो, गुमगुमेति शब्दं कृतवन्तः सन्त इत्यर्थी, निलीयमानाः - आश्रयन्त उड्डीयमानाः- तत्प्रत्यासन्नमाकाशे परिभ्रमन्तस्तैः सश्रीको मधुकरीभ्रमरगणगुमगुमायितनिलीयमानोड्डीयमानसश्रीकः, तथा नानाजातीयानां शकुनगणानां यानि मिथुनानि स्त्रीपुंसयुग्मानि तेषां प्रमोदवशतो यानि परस्परसुमधुराण्यत एव कर्णसुखानि - कर्णसुखदायकानि प्रलप्तानि - भाषणानि, शकुनगणानां हि स्वेच्छया क्रीडतां प्रमोदभरवशतो यानि भाषणानि तानि प्रलप्तानीति प्रसिद्धानि ततः 'पलत्ते ' त्युक्तं, तेषां यः शब्दो - ध्वनिस्तेन मधुरो नानाशकुनगणमिथुनसुमधुरकर्ण सुखप्रलप्तशब्दमधुरः, तथा कुशा - दर्भादयो विकुशा - वल्वजादयः तैर्विशुद्धं - रहितं वृक्षस्य -सकलस्याशोकपादपस्य, इह मूलं शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते, यथा शाखामूलमिदं प्रशाखामूलमिदमित्यादि, ततः सकलाशोकपादपसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलं यस्य स कुशविकुशविशुद्धवृक्षमूलो, यश्चैवंविधः स द्रष्टृणां चित्तसन्तोषाय भवति, तत आह प्रासादीयः - प्रसादाय - चित्तसन्तो पाय - हितस्तदुत्पादकत्वात् प्रासादीय अत एव दर्शनीयो- द्रष्टुं योग्यः, कस्मादित्याह - 'अभिरूपो' द्रष्टारं २ प्रत्यभिमुखं न कस्यचिद्विरागहेतू रूपम्आकारो यस्यासावभिरूपः एवंरूपोऽपि कुतः ? इत्याह-प्रतिरूपः- प्रतिविशिष्टं - सकलजगदसाधारणं रूपं यस्य स प्रतिरूपः, से णं असोगत्ररपायवे ' इत्यादि ' जाव नंदिरुक्खेहिं ' इत्यत्र
"
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com