SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तर चत्वारिंशत् शतक व्याख्या-पंचानामाचार्योपाध्यायपवर्तकस्थविरगणावच्छेदकानामेकतरः संयतीनयति, ताश्च स्त्रीसार्थेन समं संविग्नेन परिणतवयसा नेतव्याः ।” इति बृहत् ल्पभाष्ये ४ उद्देशके । . एतावता सामान्यसाधुसङ्घाटकेन सह साध्वीविहारनिषेधः "पियधम्मे दढधम्मे, संविग्गोऽवज्जो य तेयस्सी । संग वग्गहकुसलो, सुत्तत्थ विऊ गणाहिवइ ॥ १॥ व्याख्या - प्रिय-इष्टो धर्मः श्रुतचारित्ररूपो यस्य स प्रियधर्मा, यस्तु तस्मिन्नेव धर्मे दृढो-द्रव्यक्षेत्राद्यापदुदयेऽपि निश्चलः स दृढधर्मा, गजदन्तादिवदृढशब्दस्य पूर्वनिपातः । संविग्नो द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो मृगः, सदैव त्रस्तमानसत्वात्, भावतो य: संसारभयोद्विग्नः पूर्वरात्रापररात्रकाले सम्प्रेक्षते-किं मया कृतं ? किं वा शक्यमपि तपःकर्मादिकमहं न करोमि ? इत्यादि, 'वज्जत्ति प्रकारपश्लेषादवद्य-पापं, सूचनात्सूत्रमिति कृत्वा, तभीरुरवद्य. भीरुः । ओजस्तेजश्चोभयमपि वक्ष्यमाणलक्षणं, स्तद्विद्यते यस्य स ओजस्तेजस्वी चेति । सङ्ग्रहो द्रव्यतो वस्त्रादिभिर्भावतः सूत्रार्थाभ्यां, उपग्रहो द्रव्यत औषधादिभिर्भावतो ज्ञानादिभिः, एतयोः-संयतीविषययोः सङ्ग्रहोपग्रहयोः कुशलः । तथा सूत्रार्थवित् गीतार्थः । एवंविधो गणाधिपतिरार्याणां गणधरः स्थापनीय” इत्यादि । एतावता जेहवइ (तेहवइ) यतियइं साध्वी साथि लेइ विहार न करिवउ, थोडइ कह्यइ घणउ समझिज्यो, पोते जोइनइ रमिज्यो इत्यादि, एवं निशीथे अष्ठ(मोदशके)माध्ययने (?) विचारिवउ ॥६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.035209
Book TitlePrashnottar Chatvarinshat Shatak
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherPaydhuni Mahavir Jain Mandir Trust Fund
Publication Year1956
Total Pages464
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy