SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [४१] गाथा ||..|| दीप अनुक्रम [१३४] नन्दीहारिभद्रीय वृत्ती ॥ ८१ ॥ A [भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [४१] / गाथा ||८१...|| व स्थापनादिद्वारेण पूर्जार्हत्वादर्हन्तो भवन्त्येव, अतो- भगवद्भिः, भगः खलु समत्रैश्वर्यादिलक्षणः, यथोक्तं- "ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, पष्णां भग इतींगना ॥ | १ ||” भगो विद्यते येषां ते भगवन्तः तैर्भगवद्भिः, न चानादिशुद्धानां समग्र रूपमुपपद्यते, अशरीरित्वात्, शरीरस्य च रागादिकार्यत्वात् तेषां च तदभावादिति, स्वेच्छा निर्माणतः समग्रशरीरसम्भवातुल्यतामेवाशंक्याह-उत्पन्नज्ञानदर्शनधरैः न च तेनादिशुद्धाः उत्पन्नज्ञानदर्शन धराः 'ज्ञानमप्रतिघं यस्येत्यादिवचनविरोधात् एवं शुद्धद्रव्यास्तिकनयमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थोऽयं ग्रन्थः, अधुना पर्यायास्तिकन्यमतानुसारिपरिकल्पितमुक्तव्यवच्छेदार्थमाह- 'त्रैलोक्यनिरीक्षितमहितपूजितैः' निरीक्षिताथ महिताच पूजिताश्वेति समासः, त्रैलोक्येन निरीक्षितमहितपूजिता इति विग्रहः, विशेषणसाफल्यं पुनरित्थमवसेयं त्रैलोक्यग्रहणाद्' भवनव्यन्तरनरविद्याधरज्योतिष्कवैमानिकपरिग्रहः, निरीक्षिता भक्तिनम्रैर्मनोरथदृष्टिभिर्दृष्टाः, महिता यथाऽवस्थितान्यासाधारणगुणोत्कीनलक्षणेन भावस्तवेन पूजिताः सुगन्धिपुष्पप्रकरप्रक्षेपादिना द्रव्यस्तवेनेति, तत्र सुगतादयोऽपि पर्यायास्तिकनयमतानुसारिभित्रैलोक्यनिरीक्षितमहितपूजिता इष्यन्त एव, आह च स्तुतिकार:"देवागमन भोयानचामरादिविभूतयः । मायाविध्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ||१||" इत्यादि, अत आह- 'अतीतप्रत्युत्पन्नानागतज्ञैः' न चैकान्तक्षणिकवादिनां यथोक्तविशेषणसम्भवः, अतीतानागताभावात्, तथा चागमः, "ण णिहाणगया भग्गा पुंजो णत्थि अणागते । णिब्बुमा णेव चिट्ठति आरग्गे सरिसोवमा || १ ||" असतां च ग्रहणायोगादित्याद्यत्र बहु वक्तव्यं, न च तद्दुच्यते, गमनिकामात्रत्वादस्य प्रारम्भस्य, व्यवहारनयमतानुसारिभिस्तु कैश्चिदतीतानागतार्थग्राहिण इष्यन्त एवं ऋषयः, यथाssहुरेके- "ऋषयः संयतात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति, त्रैलोक्यं सचराचरम् ।। १ ।। अतीतानागतान् भावान्, सम्यक्क्षुतं ~94~ ॥ ८१ ॥ पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः
SR No.035067
Book TitleSavruttik Aagam Sootraani 2 07 Nandi Vrutti Aagam 44 evam Anuyogdwar Vrutti Aagam 45
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages270
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, agam_nandisutra, & agam_anuyogdwar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy