________________
आगम
(४४)
प्रत
सूत्रांक
[१७]
गाथा
॥५६
५७॥
दीप अनुक्रम
[७८-८१]
नन्दीहारिभद्रीय वृतौ
॥ ४४ ॥
SSC
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः) मूलं [१७] / गाथा ||५६-५७||
ग्यदलिकद्रव्याहरणक्रियापरिसमाप्तिराहारपर्याप्तिः, गृहीतस्य शरीरतया संस्थापनाक्रियापरिसमाप्तिः शरीरपर्याप्तिः, संस्थानरचनाघटनमित्यर्थः, त्वगादीन्द्रियनिर्वर्त्तनक्रियापरिसमाप्तिरिन्द्रियपर्याप्तिः, प्राणापानक्रियायोग्यद्रव्यग्रहणशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः प्राणापानपर्याप्तिः, भाषायोग्यद्रव्य ग्रहणनिसर्गशक्तिनिर्वर्त्तनक्रियापरिसमाप्तिः भाषापर्याप्तिः, मनस्त्वयोग्यद्रव्यग्रहणनिसर्गशक्तिनिवर्त्तनक्रियापरिसमप्तिर्मनः पर्याप्तिरित्येके, आसां युगपदारब्धानामपि क्रमेण परिसमाप्तिः, उत्तरोत्तरसूक्ष्मतरत्वाद्, अत्र चाद्याथ तस्र एकेन्द्रियाणां पंच विकलेन्द्रियाणां पद् संज्ञिनां, उक्तंच - " आहारसरीरिदियपज्जती आणुपाणभासमणे । चत्तारि पंच छप्पिय | एगिंदियविलसन्नीणं ॥ १ ॥ " तत्र पर्याप्त कनामकर्मोदयात् निष्पद्यमाननिष्पन्नपर्याप्तिमन्तः पर्याप्ताः, अर्शआदित्वात् मत्वर्थीयः, त एवं पर्याप्तकाः, एवमपर्याप्त कनामकर्मोदयादनिष्पन्नपर्याप्तियोगादपर्याप्तास्त एवापर्याप्तका इति, सम्यग् - अविपरीता दृष्टियेषां ते तथा, मिथ्या विपरीता दृष्टिर्येषां ते तथा, सम्यग्मिथ्यादृष्टयस्तु प्रतिपत्त्यभिमुखा अन्तर्मुहूर्तमात्रं भवन्ति न तु परित्या भिमुखाः, यत उक्तम्- "मिच्छत्ता संकंती अविरुद्धा होइ सम्ममीसेसु । मीसाओ वा दोसुवि सम्मा मिच्छं न पुण मीसं ॥ १ ॥ " संयताः सकलचारित्रिणः असंयता अविरतसम्यग्दृष्टयः संयतासंयताः देशविरतिमन्तः श्रावकाः प्रमत्तसंयता गच्छ्वासिनः क्वचिदनुपयोगसम्भवात् अप्रमत्तसंयतास्तु जिनकल्पिकादयः सततोपयोगात्, अथवा गच्छवासिनः तन्निर्गताथ परिणामविशेषतः प्रमत्ताश्राप्रमत्ताश्रावगन्तव्या इति, आमपपध्यादिलब्धिलक्षणा ऋद्धयस्तासामन्यतरप्राप्तियोगात् प्राप्तयः, अवधिऋद्धिभावाद्वा अन्ये त्ववधिऋद्धी नियममभिदधति, इह च सर्वत्रैव मनुष्यादिषु विधाने सत्यर्थतो गम्यमानस्यापि विपक्ष| निषेधस्याभिधानमव्युत्पन्नविनेयजनानुग्रहार्थमदृष्टमेवेति, तथाहि सर्वपार्षदं हीदं शास्त्र, त्रिविधाय विनेया भवन्ति, तद्यथा---
मनः पर्या
याधिकारः
~57~
॥ ४४ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः