________________
आगम
(४४)
प्रत
सूत्रांक
[१२..]
गाथा
||४९
५३ ॥
दीप
अनुक्रम [६६-७०]
नन्दीहारिभद्रीय वृत्ती
॥ ३६ ॥
1965
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [१२...] / गाथा ||४९-५३ ||
सर्वदिकं एतावति क्षेत्रे यानि अवस्थितानि द्रव्याणि तत्परिच्छेदसामर्थ्ययुक्तः परमावधिः क्षेत्रमंगीकृत्य निर्दिष्टो, भावार्थस्तु पूर्ववदेव, अयमक्षरार्थः, इदानीं साम्प्रदायिकः प्रतिपाद्यते तत्र सर्वबह्नग्निजीवा बादराः प्रायोऽजितस्वामितीर्थकर काले भवन्ति, तदारम्भकपुरुषवाहुल्यात्, सूक्ष्माचोत्कृष्टपदिनस्तत्रैवावरुध्यन्ते, ततश्च सर्वबहवो भवन्ति तेषां च बुद्ध्या पोढाऽवस्थानं कल्प्यते, एकैक क्षेत्रप्रदेशे एकैकजीवावगाहनया सर्वतश्चतुरस्रो घनः प्रथमं स एव जीवः स्वावगाहनया द्वितीयं एवं प्रतरोऽपि द्विभेदः, श्रेण्यपि द्विमेदा, तत्राद्याः पञ्च प्रकारा अनादेशाः, क्षेत्रस्याल्पत्वात् क्वचित् समयविरोधाच्च, षष्ठः प्रकारस्तु सूत्रादेश इति, ततश्रासौ श्रेणी अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्रम्यते, सा चासश्यानलाके लोकमात्रान् क्षेत्रविभागान् व्याप्रोति, एताव दवधिक्षेत्रमुत्कृष्टमिति, सामर्थ्यमङ्गीकृत्यैव प्ररूप्यते एतावति क्षेत्र यदि द्रष्टव्यं भवति पश्यति, न त्वलोके द्रष्टव्यमस्तीति गाथार्थः ॥ एतत्तावज्जघन्यमुत्कृष्टं चावधिक्षेत्रमभिहितम्, इदानीं विमध्यमप्रतिपिपादयिपया एतावत् क्षेत्रोपलम्भे चैतावत्कालोपलम्भः तथा एतावत्कालोपलम्भे चैतावद क्षेत्रोपलम्भ इत्यर्थस्य प्रदर्शनाय चेदं गाथाचतुष्टयं जगाद शास्त्रकारः---
अंगुलमावलियाणं० ||(२०)|| हत्थम्मि० गाहा ||(*५१) || भरहम्मिगाहा || (#५२)। संखज्जीम्म उ० गाहा ।। (*५३-९०) ।। अंगुलं क्षेत्राधिकारात् प्रमाणाङ्गुलं गृह्यते, अवध्यधिकाराच्चोच्छ्रयाङ्गुलमित्येके, आवलिका असङ्ख्येयसमयसङ्घातोपलक्षितः कालः, उक्तञ्च -'असंखयाणं समयाणं समुदयसमितिसमागमेण एगा आवलिगति बुच्चर' अगुलं च आवलिका च अङ्गुलाबलिके तयोरगुलावलिकयेोर्भागमसङ्ख्येयं पश्यति अवधिज्ञानी, एतदुक्तं भवति क्षेत्रमङ्गुला संख्येयभागमात्रं पश्यन् कालतः आवलिकायाः असंख्येयमेव भागं पश्यति, अतीतमनागतं चेति, क्षेत्रकालदर्शनं उपचारेणोच्यते, अन्यथा हि क्षेत्र
विमध्यमावधि
क्षेत्रकाली
~49~
॥ ३६ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः