________________
आगम
(४४)
प्रत
सूत्रांक
[४-७]
गाथा
||86..||
दीप
अनुक्रम
[५६-५९]
नन्दीहारिभद्रीय वृती
॥ २९ ॥
[भाग-7] "नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्तिः)
मूलं [४-७] / गाथा ||४७... ||
यत्पुनः साक्षादिन्द्रियमनोनिमित्तं तत्तेषामेव तत्प्रत्यक्षम्, अलिंगत्वाद्, आत्मनोऽवध्यादिवत्, न त्वात्मनः आत्मनस्तु तत् परोक्षमेव, परनिमित्तत्वालैंगिकवत्, इन्द्रियाणामपि तदुपचारतः प्रत्यक्षं न परमार्थतः, कथम्?, अचेतनत्वादित्यत्र बहु वक्त तच्चान्यत्र वक्ष्यामो मा भूत् प्रथमग्रन्थ एव प्रतिपत्तिगौरवमित्यलं विस्तरेण, आह-- 'स्पर्शनरसनप्राणचक्षुः श्रोत्राणीन्द्रियाणी' ति क्रमः, अयमेव च ज्यायान् पूर्वपूर्वलाभ एवोत्तरोत्तरळाभाद्, अतः किमर्थमुत्क्रमः १, उच्यते पश्चानुपूर्व्यादिन्यायज्ञापनार्थं, स्पष्टसंवेदनद्वारेण सुखप्रतिपत्त्यर्थं चेति, इह मनोज्ञानयपीन्द्रियज्ञानतुल्ययोगक्षेममेव द्रष्टव्यं तथा चाभिनिबोधिकज्ञानप्ररूपणार्या प्रत्यक्षत इति सेतं इदियपञ्चक्त्रं तदेतदिन्द्रियप्रत्यक्षम् ॥
'से किं तं गोइंद्रियपचखं० (५-७६) अथ किं तनोइन्द्रियप्रत्यक्षं ? नोइन्द्रियप्रत्यक्षं त्रिविधं प्रज्ञप्तं, तद्यथा-अवधिज्ञानप्रत्यक्षं इत्यादि ॥
'से किं तं०' इत्यादि (६-७६) अथ किं तदवधिज्ञानप्रत्यक्षं १, २ द्विविधं प्रज्ञप्तं, तद्यथा भवप्रत्ययं च क्षायोपशमिकं च, वत्र भवन्त्यस्मिन् कर्मवशवर्त्तिनः प्राणिन इति भवः- नरकादिजन्मेति भावः, भव एव प्रत्ययः कारणं यस्य तद्भवप्रत्ययं च पूर्ववत्, तथा क्षयोपशमश्च क्षयोपशमौ ताभ्यां निर्वृत्तं क्षायोपशमिकं ॥ तत्र यद्येषां भवति तत्तेषामुपदर्शमाह -
'दोह 'मित्यादि (७-७६) द्वयोर्जीवसमूहयोः भवप्रत्ययं तद्यथा देवानां नारकाणां च तत्र दीव्यन्तीति देवाः, निरुप मक्रीडामनुभवन्तीत्यर्थः तेषां तथा नरान् कायन्तीति नरकाः, योग्यतया शब्दयन्तीत्यर्थः, ते भवा नारकास्तेषां ।। अत्राह-न
अवधेरधिकारः
~42~
॥ २९ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः ... अथ प्रत्यक्ष ज्ञान भेदे 'अवधिज्ञान वर्णयते