________________
आगम
(४४)
प्रत
सूत्रांक
[0]
गाथा
||86..||
दीप
अनुक्रम
[43]
नन्दीहारिभद्रीय वृत्ती
॥ २६ ॥
[भाग-7] "नन्दी"- चूलिकासूत्र- १ (मूलं+ वृत्तिः) मूलं [१] / गाथा ||४७...||
ज्ञानयोरुपन्यास इति, तथाहित्य एवं मतिज्ञानस्य स्वामी स एव श्रुतज्ञानस्य, 'जत्थ मतिणाणं तत्थ सुयणाणं' ति वचनात् तथा यावान् मतिज्ञानस्य स्थितिकालस्तावानेवेतरस्य प्रवाहापेक्षया अतीतानानागतवर्तमानः सर्व एव अप्रतिपतितैकजीवापेक्षया च षट्षष्टिसागरोपमाण्यधिकानीति, उक्तं च भाष्यकारेण - "दो वारे विजयाइसुं गयस्स तिमच्चते अहब ताई । अइरेगं नरभवियं णाणाजीवाण सम्बद्धं ॥ १ ॥” यथा मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतज्ञानमपि यथा च मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेचं श्रुतज्ञानमपि यथा मतिज्ञानं परोक्षं एवं श्रुतज्ञानमपीति, तथा मतिज्ञानथुतज्ञानयोरेव अवध्यादिज्ञानभावादिति । आह-एवमपि मतिज्ञानमादौ किमर्थमिति, उच्यते मतिपूर्वकत्वाद्विशिष्टमत्यंशरूपत्वाद्वा श्रुतस्यादी मतिज्ञानमिति, उक्तं च " मतिपूब्वं जेण सुयं तेणादीए मती विसिडो वां । मतिभेओ चैव सुयं तो मतिसमणंतरं भणियं ॥ १ ॥ इति, पर्याप्तं विस्तरेण । तथा कालविपर्ययस्वामिला भुसाधर्म्यान्मतिश्रुतज्ञानानन्तरमवधिज्ञानस्योपन्यासः, तथाहि पावानेव मतिज्ञानश्रुतज्ञानयोः स्थितिकालः प्रवाहापेक्षयाऽप्रतिपतितैकसत्वा धारापेक्षया च तावानेवावधिज्ञानस्यापि अतः स्थितिसाधर्म्य, तथा यथैव मतिज्ञानश्रुतज्ञाने विपर्ययज्ञाने भवत एवमिदं मिथ्यादृटेर्विभंगज्ञानं भवतीति विपर्ययसाधम्र्म्य, तथा य एव मतिज्ञानश्रुतज्ञानयोः स्वामी स एवावधिज्ञानस्यापि (इति) भवति स्वामिसाधर्म्य, तथा विभंगज्ञानिनखिदशादेः सम्यग्दर्शनावाप्तौ युगपदेव ज्ञानत्रयलाभसम्भवाल्लाभसाधर्म्यं । तथा छग्रस्थविषयभावाध्यक्षसाधर्म्यादवधिज्ञानानन्तरं मनःपर्यायज्ञानस्योपन्यासः तथाहि यथाऽवधिज्ञानं छवस्थस्य भवत्येवं मनःपर्यायज्ञानमपि छद्यस्थस्यैवेति छग्रस्थसाधर्म्य, तथा यथाज्ञविज्ञानं रूपिद्रव्यविषयमेवं मनःपर्यायज्ञानमपि सामान्येनेति विषयसाधर्म्ये, तथा यथाऽवधिज्ञानं क्षायोपशमिके भावे तथा मनः
"
ज्ञानभेदानामुद्देशः
~39~
॥ २६ ॥
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं हरिभद्रसूरिजीरचिता वृत्तिः