________________
आगम
(४०)
[भाग-6] “आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्तिः ) ४
अध्ययनं [१], नियुक्ति: [८६५], वि०भा०गाथा , भाष्यं [१५०...], मूलं F /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
णीयं वस्तु प्रति आख्यानं-गुरुसाक्षिकनिवृत्तिकथनं ८, एते अष्टौ सामायिकपर्यायाः । अथ सामायिकपर्यायाणामभिधानं किमर्थ ?, उच्यते, असम्मोहप्रतिपत्त्यर्थम् , तथाहि-यथा चन्द्रः शशी निशाकरोरजनीकर उडुपतिरित्येवमादिषु चन्द्रपायेषु आदित्यः सविता भास्करो दिनकर इत्येवमादिषु सूर्यपर्यायेष्वभिहितेषु चन्द्रसूर्यपर्यायाऽभिज्ञस्य सत एकस्मिन् शशिपर्याये केनाप्युक्त समस्तसूर्यपर्यायव्युदासेन चन्द्रपर्यायेषु यदिवा सूर्यपर्याये एकस्मिन् केनाप्युक्के समस्तचन्द्रपर्यायपरित्या|गेन समेषु सूर्यपर्यायेषु सम्प्रत्ययो भवति, नतु मुह्यति, एवं चतुर्णामपि सामायिकानां पृथक् पर्यायेष्वभिहितेषु तदभिज्ञस्य सत एकस्य सामायिकस्यैकस्मिन् पर्यायेऽमिहिते शेषसामायिकपर्यायव्युदासेन विवक्षितसामायिकपर्यायेषु सर्वेषु प्रत्ययो भवति, न तु मोहं यातीति ॥ साम्प्रतं सर्वविरतिसामायिकपर्यायार्थानामष्टानामप्यनुष्ठातन् यथासङ्ख्यमष्टाव दृष्टा-| न्तभूतान् महात्मनः प्रतिपादयन्नाह
दमदंते १ मेअले २ कालगपुच्छा ३ चिलाय ४ अत्तेअ५।
धम्मरुइ ६इला ७ तेयलि ८ सामइए अठ्ठदाहरणा ।। ८६५ ॥ सामायिके-सर्वविरतिसामायिकेऽष्टानामपि पर्यायार्थानां यथाक्रमममून्यष्टावुदाहरणानि, तद्यथा-सामायिकशब्दार्थाहनुष्ठाने दमदन्तो महर्षिः, समयिकशब्दार्थानुष्ठाने मेतार्यः, सम्यग्वादशब्दार्थानुष्ठाने कालकाचार्यपृच्छा, समासशब्दार्थानु
छाने चिलातिसुतः, सङ्केपशब्दार्थानुष्ठाने आत्रेयः, अयं चोपलक्षणं कपिलादीनां, अनवद्यशब्दार्थानुष्ठाने धर्मरुचिः,
दीप
अनुक्रम
HEAF
आ.सू.८०
For Fun
... सर्वविरति सामायिकस्य अष्ट पर्याय नामानि एवं प्रत्येक नाम्न: कथानक:
~77~