________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [२], नियुक्ति: [१०७९-१०८१], विभागाथा -], भाष्यं [२०५...], मूलं [१...] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
गाथा ||१||
इह ज्ञशरीरभव्यशरीरव्यतिरिक्तं नोआगमतो द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भा-18 वात् , तथा चाह-दाहोपशममिति, दाहो-बाह्यः सन्तापः तस्योपशमो यस्मिन् तदाहोपशम 'तण्हावुच्छे(इछे)यणं'ति, तृषः-पिपासायाः छेदनं जलसङ्घातेन तदपनयनात् , तथा मलो बाह्यः अङ्गसमुत्थस्तस्य प्रवाहणं, प्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तस्य प्रक्षालनात्, एवं त्रिभिरथैः कारणगतैर्नियुक्तं निश्चयेन युक्तं नियुकं-प्ररूपितं, यदिवा प्राकृतत्वात् सप्तम्यर्थे तृतीया, त्रिषु अर्थेषु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात् मागधादि द्रव्यतीर्थ, मोक्षसाधकत्वाभावात् ॥ सम्पति भावतीर्यमधिकृत्याहकोहम्मि उ निग्गहिए दाहस्सोवसमणं हवइ तत्थं । लोहम्मि उ निग्गहिए तण्हावुच्छेअर्ण होइ ॥ १०७९॥ अविहं कम्मरयं बहुएहिं भवेहिं संचिअं जम्हा । तव-संजमेण धोवइ तम्हा तं भावओ तित्थं ॥ १०८०॥
इह भावतीर्थमपि आगमनोआगमभेदतोऽनेकप्रकार, तत्र नोआगमतो भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोधे एव निगृहीते दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्य-निरुपचरितं, नान्यथा, तथा लोभ एवं निगृहीते 'तण्हावुच्छेयणं होति'त्ति तृपः-अभिष्वंगलक्षणायाः छेदन-व्यपगमो भवति, तथा अष्टविघं अष्टप्रकार कम्मैव जीवानुरंजनात् कर्मरजः बहुभिर्भवैःसश्चितं तपःसंयमेन धाव्यते-शोध्यते यस्मात् तस्मात् प्रवचनं भावतीर्थम् ॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहिं सोहिं । एएण होइ तित्थं एसो अन्नोऽवि पज्जाओ ॥१०८१॥ दर्शनज्ञानचारित्रेषु नियुक्तं-नियोजितं सर्वैः ऋषभादिभिर्जिनवरैः-तीर्थकृदिः, यस्मादित्थंभूतेषु नियुक्कं तस्मात् ।
ABCRECECRECORRECORA
दीप
अनुक्रम [३]
JaMEducati
For
F
lutelu
~319~