________________
आगम
(४०)
[भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:)४
अध्ययनं [१], नियुक्ति: [८३०], वि०भा०गाथा , भाष्यं [१५०...], मूलं - गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
-*--5-1545454-1544560
॥ श्रीआवश्यकमलयगिरीयवृत्तौ चतुर्थ-भाग: सम्प्रति केष्विति द्वारं व्याचिख्यासुराहसवगयं सम्मत्तं सुण चरित्ते न पजवा सधे । देसविरई पडुच्चा दुण्हवि पडिसेहणं कुज्जा ॥ ८३० ।।
अथ केषु द्रव्येषु पर्यायेषु वा सामायिकमित्याशङ्कायामुक्त-सर्वगतं सम्यक्त्वं, सर्वद्रव्यपर्यायरुचिलक्षणत्वात्तस्य, तथा श्रुते-श्रुतसामायिके चारित्रे-चारित्रसामायिके न सर्वे पर्याया विषयाः, श्रुतस्याभिलाप्यपर्यायविषयत्वात् द्रव्यस्य च | | अभिलाप्यानभिलाप्यपर्याययुक्तत्वात् , चारित्रस्यापि 'पढमंमि सबजीवा' इत्यादिना सर्वद्रव्यासर्वपर्यायविषयतायाः प्रागेवर प्रतिपादितत्वात् , देशविरतिं प्रतीत्य द्वयोरपि सकलद्रव्यपर्याययोः प्रतिषेधनं कुर्यात् , न सर्बद्रव्यविषयं नापि सर्वपर्याय-1 विषयं देशविरतिसामायिकमिति भावः, आह-अयं सम्यक्त्वविषयः किंद्वारे प्ररूपित एव ततः किं पुनरभिधानK मिति?. उच्यते. प्राग विषयविषयिणोरभेदेन किं तदिति सामायिकस्य किंद्वार एवं द्रव्यत्वगुणत्वनिरूपितस्य ज्ञेयभावेना विषयाभिधानमित्यदोषः । आह च भाष्यकृत्-नणु सामाइयविसओ किंदारंमिवि परूवितो पुषं । कह न पुणरुत्तदोसो होज इह ? को विसेसो वा ॥ २७५९ ॥ अत्रोत्तरम्-कि तंति जाइभावेण तत्थ इह नेयभावतोऽभिहियं । इह विसयविसहभेओ सस्थाभेयोक्यारोत्ति ॥ २७६०॥ (विशे.) केष्विति गर्त, सम्प्रति कथमिति द्वारं वक्तव्यं, कथं सामायिकमवाप्यते इति, तत्र चतुर्विधमपि सामायिकं मनुष्यत्वादिस्थानावाप्तो सत्यामवाप्यत इति तत्क्रमदुर्लभताख्यापनार्थमाह
दीप अनुक्रम
आ.म. ७६
Funmane sreesonal useOily
... अत्र नियुक्ति: (८३०) अष्ट शताधिक त्रिंशते: आवश्यक-मलयगिरेः वृत्ते: चतुर्थ एवं अंतिम भाग: आरभ्यते
~29~