________________
आगम
(४०)
प्रत
सूत्रांक
[१]
दीप अनुक्रम
[२]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्ति:+वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [१०४५-१०४६] वि० भा० गाथा [-] भाष्यं [१८५...], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
प्रवेशनं द्रव्येकं अत एवाह - 'एयाई तु दमि' एतान्युदाहरणानि द्रव्ये द्रव्यविषयाणि ॥ साम्प्रतं भावसामादिप्रतिपादनार्थमाह
आयो माए परदुक्खमकरणं रागदोसमज्झत्थं । नाणाइतिगं तस्सायपोअणं भावसामाई ॥। १०४५ ।। आत्मोपमानेन परदुःखाकरणं, मकारोऽलाक्षणिकः, भावसामेति गम्यते, किमुक्तं भवति ? - आत्मनीव परदुःखाकरणपरिणामो भावसाम, तथा रागद्वेषमाध्यस्थ्यं, अनासेवनया रागद्वेषमध्यवर्त्तित्वं सर्वत्रात्मनस्तुल्यरूपेण वर्त्तनं भावसमं, तथा ज्ञानादित्रयं ज्ञानदर्शनचारित्र रूपमेकत्रावस्थितं भावसम्यक्, तथाहि ज्ञानदर्शनचारित्रयोजनं भावसम्यगेव, मोक्षसाधकत्वात्, 'तस्ये' ति सामादि सम्बध्यते, तस्य सामादेरात्मप्रोतनं आत्मनि प्रवेशनं भावे, क्रमत एवाह भावसामादीनि प्रतिपत्तव्यानि । सम्प्रति निरुक्तिविधियोजना क्रियते, आत्मन्येव साम्न इकं प्रवेशनं सामायिकं यलक्षणेनानुपपन्नं तत्सर्वं नैरुक्तिनिपातनादवसेयं, तथाहि सामन्शब्दनकारस्य आयआदेशः, तथा समस्य-रागद्वेषमध्यस्थस्यात्मनि इकं प्रवेशनं सामायिकं, समशब्दात्परः अयागमः सकारस्य च दीर्घता, तथा सम्यगित्येतस्य सम्यग्ज्ञानदर्शनचारित्रयोजनरूपस्यात्मनि इकं - प्रवेशनं सामायिकं यकारादेरायादेशनिपातनं सकारस्य च दीर्घता ॥ सम्प्रति सामायिकपर्यायशब्दान् प्रतिपादयति
समया संमत्त पसत्थ संति सिव हिअ सुहं अणिदं च । अदुगुंछिअमगरहियं अणवज्जमिमेऽवि एगट्ठा ॥ १०४६ ॥ समता रागद्वेषमध्यवर्त्तिनस्तद्रूपत्वात्, सम्यक्त्वं ज्ञानदर्शनचारित्राणां परस्परं यत् प्रयोजनं तदात्मकत्वात्, प्रशस्तं
For Private & Personal Use Only
~277~