________________
आगम
(४०)
[भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [१०४१], विभा गाथा , भाष्यं [१८३], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१]
हटियादे-भूतवादे बोद्धव्योऽभिव्याहारः, एतदुक्तं भवति-शिष्यवचनानन्तरमाचार्यवचनमिदम्-उद्दिशामि सूत्रतोऽर्थतस्त-16 दुभयतो द्रव्यगुणपर्यायैरनन्तगमसहितैरिति, एवं गुरुणा समादिष्टेऽभिव्याहारे शिष्याभिव्याहारः-शिष्यो प्रवीति-उद्दिष्टमिदं मम, इच्छाम्यनुशासनं क्रियमाणं पूज्यैरिति, एवमभिव्याहारद्धारमष्टमं नीतिविशेषे नये इति ॥ व्याख्याता प्रतिद्वा-18 रगाथा, साम्प्रतमधिकृतमूलगाथायामेव करणं कतिविधमित्येतत् द्वारं व्याचिख्यासुराहउद्देससमुदेसो वायणमणुजाणणं च आयरिए । सीसंमि उद्दिसिजंतमाइ एअं तुजं कइहा ॥ १८३॥(भा.)
गुरुशिष्ययोः सामायिकक्रियाव्यापारणं करणं, तञ्चतुओं, तद्यथा-उद्देसकरण समुदेसकरणं वाचनाकरणमनुज्ञाकरणं बीच, छन्दोभङ्गभयादिह वाचनाकरणमेवमुपन्यस्तं, यावता तत्त्वतः अमुना क्रमेण द्रष्टव्यं-उद्देशो वाचना समुदेशोऽनुज्ञा है
चेति गुरोर्व्यापारः, 'आयरिए'त्ति गुराविदं करणं, गुरुविषयमित्यर्थः, 'सीसंमि उदिसिज्जंतमादि' शिष्ये-शिष्यविषयं | उद्दिश्यमानकरणं वाच्यमानकरणं समुद्दिश्यमानकरणमनुज्ञायमानकरणं चेति, 'एयं तु जं कइहत्ति एतदेव चतुर्विधं तत् यदुक्तं कतिविधमिति, आह-पूर्वमनेकविधं नामादिकरणमभिहितमेव इह पुनः किमिति प्रश्नः१, उच्यते, तत् पूर्वगृहीतस्य करणमनेकविधमुक्तं, इदं पुनरस्मिन् गुरुशिष्यदानग्रहणकाले चतुर्विधं करणमिति, पूर्व वा करणमविशेषेणोकं, इह तु गुरुशिष्यक्रियाविशेषाद्विशेषितमिति न पुनरुक्तता, अथवा अयमेव करणस्यावसरः, पूर्वत्र पुनरनेकान्तद्योतनाथ विन्यासः कृत इति 'विचित्रा सूत्रस्य कृतिरिति, कृतं विस्तरेण ॥ द्वारम् । सम्पति कथमिति द्वार विवरीपुराह
कह सामाइयलंभो ? तस्सबविघाई देसवाघाई । देसविघाईफडग अणंतवुड्डीविसुद्धस्स ॥ १०४१॥
RECORRECRORECACRORE
दीप अनुक्रम
[२]
JanEducation
Fur
& Fonte
~271