________________
आगम
(४०)
[भाग-6] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [१०४०], विभा गाथा H, भाष्यं [१७८], मूलं [१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१]
दीप अनुक्रम
कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, अत्र नयनिर्वचनं-'उद्दिढे नेगम'त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनयस्य उद्दिष्टमात्र एवं सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाननुष्ठायी 18 सन् सामायिकस्य कर्ता, वनगमनपस्थितप्रस्थककर्तृवत् , यस्मात् उद्देशोऽपि सामायिककारण, तस्मिंश्च कारणे कार्योपचारः
'उवहिते संगहो य ववहारों त्ति सङ्ग्रहो व्यवहारश्च उपस्थितः सन् कारको भवतीति, इयमत्र भावना-इह उद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रमन् कारको भवतीति मन्यते, एतदुक्तं भवति-उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु ब्याचक्षते-न पठन्नेव, किन्तु समाप्ते कारक इति, सामायिकक्रियावान् प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्द क्रिये असाधारणं कारणं, असाधारणकारणेन च व्यपदेश इति, 'सहु समत्तंमि उवउत्तो'त्ति, शब्दादयो मन्यन्ते-समाप्ते सत्युपयुक्ते एव कारको भवति, त्रयाणां शब्दादीनां नयानां शब्द क्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः, मनोज्ञतथापरिणामरूपत्वात् सामायिकस्य, कदा कारक इति गतं । सम्प्रति नयत इत्येतद् द्वारं विवरीपुराह
आलोयणा १ य विणए २ वित्त ३ दिसाऽभिग्गहे ४ अ काले ५ य ।
रिक्ख ६ गुणसंपयाऽविअ ७ अभिवाहारे ८ अ अट्ठमए ॥ १७८॥ (भा.) इहाभिमुख्येन गुरोरात्मदोषप्रकाशनमालोचनानयः, तथा विनयः पदधावनादि क्षेत्रं-इक्षुक्षेत्रादि दिगभिग्रहो-वस्यमा
HOOLSANGRECENGC कनवाल
[२]
Manelibraryara
~267~