________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [१०२७], वि०भा०गाथा -1, भाष्यं [१५१...], मूलं [१] / गाथा पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [१]
दीप अनुक्रम
कयपंचनमोकारो करेइ सामाइयंति सोऽभिहितो। सामाइयंगमेव य जं सो सेसं अतो वोच्छं ॥१०२७॥
कृतः पश्चनमस्कारो येन स तथाविधः, शिष्यः सामायिकं करोतीत्यागमः, स च पश्चनमस्कारोऽभिहितो यस्मादसौ | नमस्कारः सामायिकाङ्गमेव, सा च सामायिकाङ्गता प्रागेवोका, अत ऊर्ध्व शेष सूत्रं वक्ष्ये ॥ तच्चेदंतेकरेमि भंते! सामाइयं सबं सावजं जोगं पञ्चक्खामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं
न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं
बोसिरामि ॥१॥ (सूत्र) HI इदं च सूत्रं सूत्रानुगम एव प्राप्तावसरेऽहीनाक्षरादिगुणोपेतमुच्चारणीयम् , तद्यथा-अहीनाक्षरमनत्यक्षरं अव्याविद्धासाक्षरमस्खलितममिलितमव्यत्याडितं प्रतिपूर्ण प्रतिपूर्णघोषं कण्ठोष्ठविप्रमुक्तं वाचनोपगत'मिति, अमूनि च पदानि प्रार व्याख्यातत्वात् न व्याख्यायन्ते, एवंरूपे च सूत्रे उच्चरिते सति केषाश्चिद्भगवतां साधूनां केचन अर्थाधिकारा अधिगता भवंति, केचन त्वनधिगताः, ततश्चानधिगताधिगमनाय व्याख्या प्रवर्तते, तल्लक्षणं चेदम्-संहिता च पदं चैव, पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं, व्याख्या तंत्रस्य पनिधा॥१॥ अस्खलितपदोच्चारणं संहिता, अथवा परः सन्निकर्षः संहिता, यथा-करेमि भंते ! सामाइयमित्यादि, जाव वोसिरामित्ति, पदं च पञ्चधा, तद्यथा-नामिकं नैपातिकं औपसर्गिक-14 माख्यातिकं मिश्र च, तत्र अश्व इति नामिकं, खल्विति नैपातिकं, परीत्यौपसर्गिक, धावतीत्याख्यातिकं, संयत इति । मिश्र, अथवा द्विविधं पदं स्याद्यन्तं पदं तिबाद्यंतं च, अत्र पञ्चविधानि द्विविधानि वा पदानि, तद्यथा-करोमि भयान्त !
SAKSARKARSACASS
[२]
For Fun
... अत्र अध्ययनं -१- 'सामायिकं' आरभ्यते ...
... अत्र 'सामायिक'-सूत्रस्य आरंभ: एवं तस्य व्याख्या क्रियते
~239