________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र- १ (निर्युक्तिः+वृत्ति:) ४
अध्ययनं [१], निर्युक्तिः [१०१०- १०१२] वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीआव श्यकमल
यगिरीय
वृत्तौ नम
स्कारे
॥५५१ ॥
साधका लौकिका द्रव्यसाधवः, कुप्रवचनक्रियासाधकाः कुप्रावचनिकाः साधवः, लोकोत्तरद्रव्यसाधुप्रतिपादनार्थमाह, अथवाऽपि द्रव्यभूताः अप्रधाना जिनाज्ञावहिर्भावात् साधवो भवन्ति द्रव्यसाधवः ॥ सम्प्रति भावसाधून् प्रतिपादयतिनिव्वाणसाह जोगे, जम्हा सार्हेति साहुणो । समा य सव्वभूएस, तम्हा ते भावसाहुणो ॥ १०१० ॥ निर्वाणसाधकान् योगान - सम्यग्दर्शनादिप्रधानान् व्यापारान् साधयन्ति साधवः, विहितानुष्ठानपरत्वात् समाश्च सर्वभूतेषु एतच्च योगप्राधान्यख्यापनार्थमुक्तम्, तस्मात् भवंति भावसाधवः ॥
किं पेच्छसि साहूणं तवं च नियमं च संजमगुणं वा १। तो बंदसि साहूणं एअं मे पुच्छिओ साह ॥ १०११ ॥ किं साधूनां प्रेक्षसे त्वं तपो वा अनशनादिकं नियमं वा द्रव्याभिग्रहादिकं संयमगुणं वा पञ्चाश्रवविरमणादिकं १, ततो बन्दसे साधून् ?, सूत्रे षष्ठी द्वितीयार्थे, अथवा 'माषाणामश्रीया' दित्यादाविव क्रियायोगेऽपि सम्बन्धविवक्षया पष्ठी, एतन्मे पृष्टः सन् साधय-कथय ॥ एवमुक्ते गुरुराह-
विसयसुहनियत्ताणं विसुद्धचारित्तनियमजुत्ताणं । तचगुणसाहगाणं सहायकिचुजु आण नमो ॥ १०१२ ॥ सर्वत्र सूत्रे षष्ठी चतुर्थ्यर्थे प्राकृतत्वात्, 'छट्ठिविभत्तीए भन्नइ वउत्थी' ति वचनात्, ततोऽयमर्थः - विषयसुखनिवृत्तेभ्योमनोज्ञरूपालोकनादिप्रसक्तिविरतेभ्यः, तथा विशुद्धं यच्चारित्रं - प्राणातिपातादिविरमणपरिणामात्मकं 'चारितं परिणामो जीवस्स सुहो य होइ नायडो' इति वचनात्, यश्च नियमो विचित्रो द्रव्याभिग्रहादिस्ताभ्यां युक्तेभ्यः, तथा तथ्याः- ताविका गुणाः- क्षान्त्यादयस्तेषां साधकेभ्यः, तथा साधनानि - मोक्षसाधनानि यानि कृत्यानि -प्रत्युपेक्षणादीनि तेषूद्यच्छंते तेभ्यो
For Private & Personal Use Only
~ 230~
सिद्धसौख्यं
॥५५१ ॥