________________
आगम
(४०)
[भाग-6] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [९८४-९८५], विभा गाथा [-], भाज्यं [१५१...], मूलं - /गाथा-], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
दीप अनुक्रम [१]
इय सिद्धाणं सोक्खं अणोवम नत्थि तस्स ओवम्म । किंचिविसेसेणेत्तो सारिक्खमिणं सुणह वोच्छं॥९८४॥
इति-एवमुक्तेन प्रकारेण सिद्धानां सौख्यमनुपमं वर्तते, किमित्यत आह-यतो नास्ति तस्य औपयं-उपमीयमानता, दाउपमानासंभवात् , तथापि चात्मनः प्रतिपत्तये किंचिद्विशेषेण 'एत्तो' त्ति आर्षत्वाद् अस्याः सादृश्यमिदं-यक्ष्यमाणलक्षणं शृणुताहं वक्ष्ये इति ॥ प्रतिज्ञातमेव निर्वाहयति
जह सबकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुको अच्छेन्ज जहा अमियतत्तो॥९८५॥ __ यथेत्युदाहरणोपन्यासार्थः, सर्वकामगुणितं-सकलसौन्दर्यसंस्कृतं, भोजनं भुज्यते इति भोजनं 'कृबहुल' मिति वचदिनात् कर्मण्यनद्, कश्चित् पुरुषो भुक्त्वा तृक्षुद्विमुक्तः सन् यथा आसीनः अमृततृप्तः, आवाधारहितत्वात् । इह
रसनेन्द्रियमधिकृत्येष्टविषयप्राप्त्या औत्सुक्यविनिवृत्तेः सुखप्रदर्शनं सकलेन्द्रियार्थावास्या शेषौत्सुक्यनिवृत्त्युपलक्षणार्थः,
अन्यथा वाधांतरसंभवतः सुखाभावः स्यात्, सर्वबाधाविगमेन चात्र प्रयोजनम् , उक्कं च-"वेणुषीणामृदङ्गादिनादद्रयुक्तेन हारिणा । श्लाध्यस्मरकथाबद्धगीतेन स्तिमितः सदा ॥१॥ कुट्टिमादिविचित्राणि, दृष्ट्वा रूपाण्यनुत्सुकः । लोचनान
न्ददायीनि, लीलावन्ति स्वकानि हि ॥२॥ अम्बरागुरुकर्पूरधूपगन्धानितस्ततः । पटवासादिगन्धांश्च, व्यक्तमाघ्राय निःस्पृहः ॥ ३॥ नानारससमायुक्त, भुक्त्वाऽन्नमिह मात्रया । पीत्वोदकं च तृतात्मा, स्वादयन् स्वादिमं शुभम् ॥ ४ ॥ मृदुतूलीसमाक्रान्तदिव्यपर्यकसंस्थितः । सहसाऽम्भोदसंशब्दश्रुतेर्भयपन भृशम् ॥ ५॥ इष्टभायोपरिच्वकतद्रतांतेऽथवा
HARESS
JaMEducation
al
~223