SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [९७५-९७६], विभा गाथा E], भाष्यं [१५१...], मूलं [- /गाथा-], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक PASS दीप अनुक्रम [१] द एसोच्चिय पडिसेहो सिद्धाइगुणेसु दीहयाईणं । जमणित्थंत्थं पुषागारावेक्खाए नाभावो ॥२॥" आह-किमेते सिद्धा देशभेदेन स्थिता उत नेति, उच्यते, नेति बेमः, कुत इति चेत्, उच्यते, यस्मात् जस्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नोन्नसमोगाढा पुढा सबे य लोगंते ॥९७५॥ यत्रैव चशब्दस्यैवकारार्थत्वाद् देशे एकः सिद्धो-निवृतः तत्रानंता भवक्षयविमुक्ताः--भवक्षयेण विमुक्ता भवक्षयविमुक्ताः, अनेन स्वेच्छया भवावतरणशक्तिमत्सिद्धव्यवच्छेदमाह, अन्योऽन्यसमवगाढाः तथाविधाचिन्त्यपरिणामवत्त्वात् धम्मास्तिकायादिवत् , 'पुट्ठा सबे य लोगंते' इति स्पृष्टा-लग्नाः सर्वे लोकान्ते, पाठान्तरं वा 'पुट्ठो सहिं लोगतो' स्पृष्टः सर्वैर्लोकान्तः 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् । तथा फुसइ अणंते सिद्धे सबपएसेहिं सबतो सिद्धो । तेऽवि असंखेज्वगुणा देसपएसेहि जे पुट्ठा ॥९७६ ॥ स्पृशत्यनन्तान् सिद्धान् सर्वप्रदेशैरात्मसंबन्धिभिः 'नियमसो'त्ति नियमतो-नियमेन सिद्धः, तथा तेऽप्यसंख्येयगुणा वर्तन्ते ये देशप्रदेशैः स्पृष्टाः, ते केभ्योऽसंख्येयगुणा इति चेत्, उच्यते, सर्वप्रदेशस्पृष्टेभ्यः, कथमिति चेत्, उच्यते, इह एकस्य सिद्धस्य यदवगाहनाक्षेत्रं तत्रैकस्मिन्नपि परिपूर्ण क्षेत्रे अवगादास्तेऽनंताः, ये च मूलक्षेत्रादेकप्रदेशवृद्ध्याऽवगादाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पश्यादिप्रदेशवृद्ध्या ये अवगाढास्तेऽपि प्रत्येकमनन्ताः, तथा सस्य मूलक्षेत्रस्य एकैकं प्रदेशं परित्यज्य येऽवगाढास्तेऽपि प्रत्येकमनन्ताः, एवं द्वित्रिचतुष्पश्चप्रदेशादिहान्या ये अवगादास्तेऽपि प्रत्येकमनन्ताः, एवं च सति प्रदेशपरिवृद्धि हानिभ्यां ये समवगाढास्ते परिपूर्णक्षेत्रावगाढेभ्योऽसंख्येयगुणा भवन्ति, असंख्येयप्रदे JaMEducation A janeibrary.org ~219~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy