SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-6] "आवश्यक- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ४ अध्ययनं [१], नियुक्ति: [९५५], विभा गाथा H, भाष्यं [१५१...], मूलं [- /गाथा-], पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक दीप अनुक्रम द इत्यर्थः, ततश्च तथाभव्यत्वेन आवर्जितस्य-मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं-क्रिया शुभयोगव्यापारणमावर्जितकरणम् , अपरे आवश्यककरणमित्यूचुः, तत्राप्ययमन्वर्थः-आवश्यकेन-अवश्यंभावेन करणमावश्यककरणं, तथाहि-समुद्घातं जाकेचित्कुर्वन्ति, इदं त्वावश्यककरणं सर्वेऽपि केवलिनः कुर्वन्ति, अन्ये आवर्जीकरणमिति वा पठन्ति, आवयं आवों वा। दध्या घञ् वा, मोक्षं प्रति अभिमुखीकर्तव्य इत्यर्थः, तस्य करणम् , अतत्तद्भावविवक्षायां विप्रत्यये आवर्जीकरणमिति वा॥ सम्प्रति समुद्घातादिस्वरूपप्रतिपादनार्थमाह दंड कवाडे मंथंतरे य संहरणया सरीरत्थे । भासाजोगनिरोहे सेलेसी सिज्मणा चेव ॥९५५ ॥ ट्रा इह समुद्घातं कुर्वन् प्रथमसमये बाहल्यतः स्वशरीरप्रमाणमूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीयसमये पूर्वापरं दक्षिणोत्तरं वाऽऽत्मप्रदेशानां प्रसारणात् पार्श्वतो लोकान्तगामि कपाटं करोति, तृतीये समये* |तदेव कपाट दक्षिणोत्तरं पूर्वापरं वा दिगद्वयप्रसारणात् मथिसदृशं मन्थानं लोकान्तप्रापिणमारचयति, एवं च प्रायो लोकस्य बहु पूरितं भवति, मन्थान्तराण्यपूरितानि, जीवप्रदेशानामनुश्रेणि गमनात् , चतुर्थसमये तान्यपि मन्थान्तराणि सह लोकनिष्कुटः पूरयति, ततश्च सकलो लोकः पूरितो भवति, तदनन्तरं यथोक्तकमात् प्रतिलोमं संहरन् पञ्चमे समये |मन्थान्तराणि संहरति, जीवप्रदेशान् सकर्मकान् मन्थान्तरगतान् सङ्कोचयतीत्यर्थः, षष्ठे समये मन्थानमुपसंहरति, घन|तरसङ्कोचात् , सप्तमे समये कपाटं, दण्डात्मनि सङ्कोचात् , अष्टमे समये दण्डमुपसंहृत्य शरीरस्थो भवति, अमुमेवार्थ चेतसि निधायोक्तं दण्डकपाटान्तरमन्थान्तराणि संहरणेन, प्रतिलोममिति गम्यते, शरीस्थ इति वचनात्, न चैतत्स्व SAGARCANCHARACY [१] JaMEducutanा Fur & Fonte neibraryana ~2017
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy