________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्ति: [ ९५४ ], वि० भा० गाथा [-] भाष्यं [ १५१...], मूलं [- / गाथा-1,
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीआव
श्यकमल
यगिरीय
वृत्तौ नम
स्कारे
॥५३६॥
निम्मोक्षप्रसङ्गात्, तथाहि यदि विपाकानुभूतित एव सर्वकर्म्म क्षपणीयमिति नियमस्तर्हि असङ्ख्यातेषु भवेषु तथाविध- समुद्घातः विचित्राध्यवसायविशेषैर्यन्नरकगत्यादिकं कर्मोपार्जितं तस्य नैकस्मिन् मनुष्यादावेव भवेऽनुभवः, स्वस्वभवनिबन्धनत्वाद्विपाकानुभवस्य, क्रमेण च स्वस्वभवानुगमेनानुभवे नारकादिभवेषु चारित्राभावेन प्रभूततरकर्म्मसन्तानोपचयात् तस्यापि स्वस्वभवानुगमेनानुभवोपगमात् कुतो मोक्षः ?, तस्मात्कर्म विपाकतो भाज्यम्, प्रदेशतोऽवश्यमनुभवनीयमिति प्रतिपत्तव्यं, एवं च कञ्चिन्न दोषः नन्वेवमपि दीर्घकालभोग्यतया यत् वेदनीयादिकं कम्मोपचितं अथ च परिणामविशेषादुपक्रमेणारादेव तदनुभवति ततः कथं न कृतनाशादिदोषप्रसङ्गः ?, तदप्यसत्, बन्धकाले तथाविधाध्यवसायवशत आरादुपक्रमयोग्यस्यैव तेन बन्धनात्, अपिच-जिनवचनप्रामाण्यादपि वेदनीयादिकर्म्मणामुपक्रमो मन्तव्यो यदाह भाष्यकारः"उदयकुखयक वयोवसमोवसमा जं च कम्मुणो भणिया । दवादि पंचगं पति जुत्तमुवक मणमतोऽवि ॥१॥” न चैवं मोक्षोपक्रमहेतुः कश्चिदस्ति येन चानाश्वासप्रसङ्गो भवेत्, मोक्षाद्धि रागादयश्यावयितुमीशाः, ते च निर्मूलकापंक पिता इति, ततो यदुक्तं 'वेदनीयादिवच्च कृतस्यापि कर्म्मक्षयस्येत्यादि, न तत्समीचीनमिति स्थितं ॥
इह सर्वोऽपि सयोगिकेवली समुद्घातादर्वाक् आयोजिकाकरणमान्तर्मुहूर्त्तकमुदयावलिकायां कर्म्मपुद्गलप्रक्षेपव्यापाररूपमुदीरणाविशेषात्मकमारभते, अथ आयोजिकाकरणमिति कः शब्दार्थः १, उच्यते, आङ् मर्यादायां, आ-मर्यादया केवलिदृष्ट्या योजनं व्यापारणं शुभानां योगानामिति गम्यते, आयोजिका तस्याः करणमायोजिका करणं, केचिदावर्जितकरणमित्याहुः, तत्रायमन्वर्थः- आवर्जितो नाम अभिमुखीकृतः, तथा च लोके वक्तारः - आवर्जितोऽयं मया, सम्मुखीकृत
Fersonal Use Only
~ 200~
॥ ५३६ ॥