________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप अनुक्रम
[3]
***
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ४
अध्ययनं [१], निर्युक्तिः [ ९३७ - ९३८ ], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-],
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
यो नित्यसिद्धयात्रः किमुक्तं भवति ?, स्थलजलचारिषधेषु सदैवाविसंवादितयात्र इति, लब्धवरो यो वा तुंडिकादिवत् स किल यात्रासिद्धः । उत्तरद्वारानुसन्धानायाह- अभिप्रायो बुद्धिपर्याय इति गाथाक्षरार्थः, भावार्थस्तु कथानकगोचरः, तच्चेदम्-पढमं ताव जो किर वारस वारातो समुदं ओगाहित्ता कयकज्जो आगच्छ सो जत्तासिद्धो, तं अन्नेवि जंतगा जत्ताए सिद्धिनिमित्तं पेच्छंति, यथा एगंमि नगरे तुंडिगो वाणिओ, तस्स सयसहस्सवारातो वहणं फुई, तहावि न भज्जइ, भणइ य-जले नहं जले चेव लब्भइ, सयणाईहिं दिजमाणं नेच्छइ, पुणो पुणो तं तं भंडं गहाय गच्छर, निच्छरण से | देवया पसण्णा, खद्धं खद्धं दवं दिनं, भणितो य-अन्नं किं ते करेमि ?, तेण भणियं-जो मम नामेण समुदं ओगाहइ सो अविवन्नो एउ, तहन्ति पडिस्सुयं स जत्तासिद्धो, अण्णे भणंति-किल निज्जामगस्त वासुलतो समुद्दे पडितो, सो तस्स कए समुहं उल्लंघिउमादत्तो, ततो अनिविन्नस्स देवयाए वरो दिनो। कृतं प्रसङ्गेन । साम्प्रतमभिप्रायसिद्धं प्रतिपादयन्नाह - विला विमला सुमा जस्स मई जो चउब्विहाए व बुद्धीए संपन्नो स बुद्धिसिद्धो इमा सा य ॥ ९३७ ॥ विपुला - विस्तारवती, एकपदेनानेकपदानुसारिणीति भावः, विमला संशयविपर्ययानध्यवसायमलरहिता, सूक्ष्मा-अत्यन्तदुःखबोधसूक्ष्मव्यवहितार्थपरिच्छेदसमर्था यस्य मतिः स बुद्धिसिद्धः । यदिवा यश्चतुर्विधया औत्पत्तिक्यादिभेदभिन्नया बुद्ध्या सम्पन्नः स बुद्धिसिद्धः ॥ सा च चतुर्विधा बुद्धिरियम्-
उप्पत्तिया वेणइया, कम्मिया परिणामिया । बुद्धी चउग्विहा वृत्ता, पंचमा नोवल भइ ॥ ९३८ ॥ उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह- सर्वस्था अपि बुद्धेः क्षयोपशमः प्रयोजनं ततः कथमुच्यते - उत्पत्ति
बुद्धेः चत्वारः भेदाः एवं तत्संबंध: दृष्टांता: प्रतिपाद्यते
For Prate & Personal Use Only
~159~