________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ४
अध्ययनं [१], निर्युक्तिः [९९८ ], वि० भा० गाथा [-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
भाष्यं [१५१], मूलं [- / गाथा-1,
माया लोभावेवं परोपघातोवओगतो दोसो | मुच्छोवयोगकाले रागोऽभिस्संगलिंगोत्ति ॥ २ ॥” शब्दादीनां तु मतं-लोभो रागः, क्रोधो द्वेषः, मानमाये तु यदा स्वगुणोपकारोपयोगात्मके तदा मूर्च्छात्मकत्वालोभः, लोभत्वाच्च रागः, यदा तु स्वगुणोपकारोपयोगविकले तदा परोपघातोपयोगात्मकत्वात् क्रोधः, क्रोधत्वाच्च द्वेषः, उक्तं च- "सद्दाइमयं माणे मायाए य सगुणोवगाराय । उवओगो लोभोच्श्चिय जतो स तत्थेव अवरुद्धो ॥ १ ॥ सेसंसा कोहोश्चिय परोवधायमइयत्ति तो दोसो” इति ॥ अथ कषायद्वारं, शब्दार्थः प्राग्वत्, तेषामष्टविधो निक्षेपः, तद्यथा-नामकषायः स्थापनाकषायः द्रव्यकषायः समुत्पत्तिकषायः ४ प्रत्ययकपायः आदेशकपायः रसकपायः भावकषायः ८, आह च- "नामं ठवणादविए, उप्पत्ती पच्चए य आदेसे । रसभावकसाए या नएहिं छहिं मग्गणा तेसिं ॥ १ ॥” नामस्थापने सुगमे, द्रव्यकपायो नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्विधा - कर्म्मद्रव्यकपायो नोकर्म्मद्रव्यकषायश्च, कर्म्मद्रव्यकषायश्चतुष्प्रकारः, कपायवेदनीयपुद्गला योग्याः १ बध्यमानाः २ बद्धाः ३ उदीरणावलिकाप्राप्ताश्च ४, नोकर्म्मद्रव्यकपायः सर्जकषायादिः, उत्पत्तिकपायो यतो द्रव्यादेवीह्यात् कषायप्रभवस्तदेव कपायनिमित्तत्वात् उत्पत्तिकषायः, द्रव्यात् कषायोत्पत्तिः सुप्रतीता, उत्कंच - " किं एतो कट्टयरं ? जं मूढो खाणुगंमि अप्फिडितो । खाणुस्स तस्स रूसइ न अप्पणो दुप्पयोगस्स ॥ १ ॥” प्रत्ययकषायः खल्वान्तरः कारणविशेषः कषायपुद्गललक्षणः, आदेशकषायः कैतवकृतभ्रुकुटि भङ्गुराकारः, तस्य हि कषायमन्तरेणापि तथादेशनात्, रसकषायो हरीतक्यादीनां रसः, भावकषायो नोआगमतः कपायोदय एव, स च क्रोधादिमेदाच्चतुष्प्रकारः, तद्यथा| क्रोधकपायो मानकषायो मायाकपायो लोभकषायश्च तत्र क्रोधो नामादिभेदाच्चतुष्प्रकारः, नामस्थापने क्षुण्णे, नोआग
... 'कषाय पदस्य अष्ट निक्षेपाः एवं कथानकः वर्णयते
For Private & Personal Use Only
127