________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप अनुक्रम
[3]
[भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ४
अध्ययनं [१], निर्युक्तिः [८९५-८९६], वि० भा०गाथा [-], भाष्यं [१५१...], मूलं [- /गाथा -], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीआव
श्यकमलयगिरिय
वृत्ती नम
स्कारे
॥ ४९१ ॥
रेकाणीति गम्यते, सम्यक्त्वकालो हि नमस्कारकालः, सम्यक्त्वकालश्चोत्कर्षतो लब्धिमधिकृत्य नरभवातिरेकाणि पट्षष्टिः सागरोपमाणीति, एपाच चिंता एक जीवमधिकृत्य, नानाजीवान् प्रति पुनः सर्वकालमिति ॥ द्वारम् । सम्प्रति 'कतिविहो वे'त्यस्य प्रश्नस्य निर्वचनाथ गाथावयवः, 'अरिहाइ पंचविहो' इति, अर्हत्सिद्धाचार्योपाध्यायसाधुपदानामादौ सन्निपातादर्हदादिपञ्चविधार्थसम्बन्धात् पञ्चविधो नमस्कारः, द्वारम् ॥ एतेन अर्थान्तरेण तत्त्ववृत्त्या नम इति पदस्याभिसंबन्धमाह ॥ गता षट्पदप्ररूपणा । सम्प्रति नवपदप्ररूपणाया अवसरः, तत्रेयं गाथा
संतपयपरूवणया १ दवपमाणं च २ खित्त ३ फुसणा य ४ ।
कालो य ५ अंतर ६ भागो ७ भावे ८ अप्पाबहुं ९ चेव ।। ८९५ ।।
सदिति तं विद्यमानार्थमित्यर्थः, सश्च तत्पदं च सत्पदं तस्य प्ररूपणा सत्पदप्ररूपणा, कार्येति वाक्यशेषः, यतश्च नमस्कारो जीवद्रव्यादभिन्न इति द्रव्यप्रमाणं वतव्यं, कियन्ति नमस्कारवंति जीवद्रव्याणि १, तथा क्षेत्रमिति कियति क्षेत्रे नमस्कारः, एवं स्पर्शना च कालश्च अन्तरं च वक्तव्यं, तथा भाग इति नमस्कारवन्तः शेषजीवानां कतिभागे । वर्त्तन्ते इति भागो वक्तव्यः, तथा "भावेति कस्मिन् भावे नमस्कारो वर्त्तते इति वाच्यम्, 'अप्पायहुं चेव त्ति अल्पबहुत्वं च वक्तव्यं प्राक्प्रतिपद्मप्रतिपद्यमान कापेक्षयेति गाथासमासार्थः ॥ व्यासार्थं तु प्रतिद्वारं वक्ष्यति, तत्राद्यं द्वार मभिधित्सुराह
संतपय परिवन्ने पडिवज्र्ज्जते य मग्गणं ग १ | इंदिय २ काये ३ जोए ४ वेए ५ य कसाय ६ लेसानु ७ ॥ ८९६ ॥
••• नमस्कार संबंधे 'संतपद' आदि नव द्वाराणाम् प्ररूपणा क्रियते
For Frate & Personal Use Only
110~
कालवस्तुनी नवप
दीच
॥ ४९१ ॥