SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] [भाग-6] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ४ अध्ययनं [१], निर्युक्तिः [८९१-८९२ ], वि० भा० गाथा [-], भाष्यं [ १५१...], मूलं [- / गाथा-], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्ति एवं मलयगिरिसूरिरचिता वृि वत्युंति । पत्तेयं पत्तेयं तेण नमोकारमिच्छति ॥ २ ॥ अत्र 'एगमिहेग' मित्यादि, एक-नमस्कारवन्तमिह जीवलोके एकं नमस्कार मिच्छति, बहून् नमस्कारवतो जीवान् बहनमस्कारानिति, गतं किमिति द्वारं । सम्प्रति कस्येति द्वारम्, तत्र प्राक्प्रतिपन्नप्रतिपद्यमानकाङ्क्षीकरणतः प्ररूपणामाह- 'पुर्वपडिवन्नतो उ जीवाण' मित्यादि, इह यदा पूर्वप्रतिपन्न एवाधिक्रियते तदा व्यवहारनयमतमाश्रित्य जीवानां विज्ञेयो, बहुजीवस्वामिक इत्यर्थः, प्रतिपद्यमानं तु प्रतीत्य जीवस्य जीवानां वा नमस्कारः, यदा एको जीवो नमस्कारं प्रतिपद्यते तदा जीवस्येति यदा तु बहवो जीवास्तं प्रतिपद्यन्ते तदा जीवानामिति अक्षरगमनिका, भावार्थरत्वयम् सङ्ग्रहनयस्य पूर्वप्रतिपन्नश्चिन्तायां प्रतिपद्यमानकचिन्तायां च एकस्वामिक एव नमस्कारो, जातिमात्राभ्युपगमात् शेषनयानां तु व्यवहारादीनां प्रतिपद्यमानको नमस्कारस्यैको वा जीवोऽनेके वा, पूर्वप्रतिपन्नास्तु नियमेनानेके, तेषां गतिचतुष्टयेऽपि मार्गणायामसख्येयानां सदैव लाभात्, आह च- 'पडिवज्जमाणतो पुण एगोऽोगे संग मोतुं । इट्ठो सेसनयाणं पडिवन्ना नियमतोऽणेगा ॥ १ ॥ इह ऋजुसूत्रादयोऽविशुद्धाः प्रतिपत्तव्याः, अनेकाभ्युपमात्, अन्यथा परकीयानभ्युपगमेनानेकाभ्युपगमानुपपत्तेः, अथ नमस्करणं नमस्कारः, नमस्करणक्रिया च सकमिका, ततः संशयः - किमसौ नमस्कारो नमस्कृतिक्रियानिष्पादकस्य कर्त्तुः उत नमस्कार्यस्य पूज्यस्य ?, उच्यते, अत्र नयैर्विचारः, तत्र गमव्यवहारयमतं नमस्कार्यस्य नमस्कारो, न नमस्कर्तुः, तस्य तदुपभोगाभावात्, तथाहि यद्यपि नाम नमस्कारक्रियानिध्पादकः कर्त्ता तथापि नासौ तं नमस्कारमुपभुङ्क्ते, किन्तु नमस्कार्य एव, ततो यथा भिक्षानिष्पादकोऽपि दाता न तामुपभुङ्क्ते इति तस्य न भिक्षा, किन्तु भिक्षोः, एवं नमस्कारोऽपि नमस्कार्थस्यैव नतु नमस्कर्तुरिति, नमस्कार्यं तु वस्तु For Private & Personal Use Only 105~
SR No.035066
Book TitleSavruttik Aagam Sootraani 2 06 Aavashyak Niryukti evam Vrutti Aagam 40 Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy