________________
आगम
(४०)
"आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति© भाग-३
अध्ययनं -], नियुक्ति: [६४०], विभा गाथा [-], भाष्यं [१३२..], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
धर्माधम्मिस्वभावरहितं किञ्चिद्धस्त्वस्ति, धर्मम्मिभावश्च कल्पित इति तदभावप्रसङ्गा, धर्मा एव कल्पिता न धम्मी तत्कथमभावप्रसङ्ग इति चेन्न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमाद्, तदभावे धम्मिणोप्यभावापचे, अथ तदेवैकं स्वलक्षणं सकलसजातीयव्यावृत्त्येकस्वभावं धम्मि विजातीयव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्माः, ततो न कश्चिद्दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुनोऽनेकान्तात्मकताप्रसक्तः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात् , नहि येनैव स्वभावेन घटाद् व्यावर्त्तते पटस्तेनैव स्तम्भादपि, स्तम्भस्य पटरूपताप्रसकेः, तथाहि-घटाद् व्यावर्त्तते पटो घटव्यावृत्तिस्वभावतया, सम्भादपि चेत् घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटवरूपताप्रसकिः, अन्यथा ततस्तत्स्वभावतया तव्यावृत्त्ययोगात् , तस्मात् यतो व्यावर्त्तते यत् तत्तळ्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणो भिन्नास्तदभावप्रसङ्गात् , तथा |च तदवस्थ एव पूर्वोको दोषः, तस्माद्भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मधम्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादाम्येन धर्मिणा धर्माः सर्वे लोलीभावेन व्याशास्तधाऽप्ययं धर्मी पते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानुपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वात् अभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सम्बन्धानुपपत्तिः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात्, नापि दोषक्षये तदात्मनोऽपि क्षयः, केवळाभेदस्यानभ्युपगमादिति न काचित् क्षतिः ॥
-ASCCEBCARKI
दीप
अनुक्रम
.
Cर
मा.सू.
NRN
Jantinuentiani
~964