________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं [-], नियुक्ति: [६२८], विभा गाथा [-], भाष्यं [१३२...], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
क्षयोपशमस्तथा तस्य रूपाविर्भावविशेषो दृश्यते, तथा च कश्चिद्बहु जानाति कश्चिद्बहुतरमिति, नचार्य ज्ञानविशेषः खल्वा-18 त्मनस्तत्स्वभावतामन्तरेणोपपद्यते, ततोऽवश्यमसौ ज्ञस्वभावः प्रतिपत्तव्यः, तस्य चाशेषावरणविलये समस्तज्ञेयपरिच्छेदकता ज्ञस्वभावत्वात् , तथा चास्मिन्नर्थे लौकिको दृष्टान्तो, यथा पद्मरागादिरुपलविशेषो भास्वरस्वरूपोऽपि स्वगतमलकलङ्काङ्कितस्तदा वस्त्वप्रकाशयन्नपि क्षारमृत्पुटपाकाद्युपायतः स्वगतमललेपापगमे प्रकाशयति, एवमास्मापि ज्ञवभावः कर्म-| मलकलदाङ्कितः प्रागशेष वस्त्वप्रकाशयन्नपि सम्यक्त्वज्ञानतपोविशेषसंयोगोपायतोऽपेतसमस्तावरणः समस्तं वस्तु प्रकाशयति, प्रतिबन्धकाभावात् , न चाप्रतिवद्धस्वभावस्यापि तस्य सर्वत्र प्रकाशनव्यापाराभावो, स्वभावत्वात्, न हि ज्ञो ज्ञेये सति प्रतिबन्धशून्यो न प्रवर्तते, अध पद्मरागोऽपि प्रकाशकस्वभावः, न चासौ प्रतिबन्धाभावे सर्व प्रकाशयति, ततस्तेनैव व्यभिचार इति, तदसम्यक्, तस्य सन्निकृष्टार्थप्रकाशनस्वभावत्वाद् विप्रकृष्टविषये देशविप्रकर्षेणैव प्रतिबन्धमावात् , न चात्मनोऽपि देशविप्रकर्षः परिच्छेदप्रतिबन्धहेतुः,तस्यागमगम्येषु सूक्ष्मव्यवहितविप्रकृष्टेष्वखिलपदार्थेष्वधिगतिसामर्थ्यदर्शनात् , तथा च परमाणुमूलकीलकोदकामरलोकचन्द्रोपरागादिपरिच्छेदसामर्थ्यमस्यागमोपदेशतः क्षयोपशमवतोऽपि दृश्यते, एवं साक्षात्कारि क्षायिकमिति प्रतिपत्तव्यमिति क्षायिकज्ञानवता प्रत्यक्षा नारकाः, भवतोऽप्यनुमानगम्याः, तदमनुमान-विद्यमानोत्कृष्ट प्रकृष्टपापफलं कर्मफलत्वात् पुण्यफलवत्, न च तिर्यडरा एव प्रकृष्टपापफलभुजा, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात्, अनुत्तरसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत्, तथा आगमप्रमाणगम्याश्चैते,
दीप
अनुक्रम
~86