________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-], नियुक्ति: [६२१-६२४], वि०भा०गाथा -1, भाष्यं [१३२...], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
दान कदाचन निलेपीभवति, यथानागतकालः, तथा च अनन्तानन्तसयोपेता भव्या इत्यनुच्छेदः, अथ सिद्धा अध्यनन्तास्तेषामपि प्रवाहतोऽनादित्वात्ततः कथं तेषां तावत्सङ्ख्याकानां परिमितक्षेत्रेऽवस्थानाविरोधः', उच्यते, अमूर्तत्वात्. तथा ह्यमूर्तानां प्रतिद्रव्यमनम्तानां केवलज्ञानदर्शनानां सम्पातोऽस्ति न च विरोध इति, छिन्नंमि संसयम्मी जाइजरामरणविप्पमुक्केण । सो समणो पचहओ अडुहिं सह खण्डियसएहिं ॥ ६२१ ॥ व्याख्या पूर्ववत्, नवरम् अर्द्धचतुर्थेरिति-साड्रैखिभिः सह खण्डिकशतैरिति ।
षष्ठो गणघरः समाप्तः।।
कसCASEARCH
दीप
अनुक्रम
ते पचइए सोलं, मोरिअ आगच्छाई जिणसगासं । बच्चामि ण बदामी वंदित्ता पजुवासामि ॥ ६२२ ॥ व्याख्या पूर्ववत्, नवरमिह मौर्य आगच्छति जिनसकाशमिति नानात्वम् ।
आभट्ठो य जिणेणं जाइजरामरणविष्पमुक्केणं । नामेण य गोत्तेण य सबनूसवदरिसीण ॥ २३ ॥ अस्या अपि सपातनिका व्याख्या पूर्ववत् । किं मन्ने अस्थि देवा उआहु नस्थित्ति संसओ तुझं। वेयपयाण य अत्थं न याणसी तेसिमो अत्यो । ६२४॥
किं सन्ति देवा उत न सन्तीति मन्यसे, व्याख्यान्तरं प्राग्वत्, अयं च संशयस्तव विरुद्धयेदपदश्रुतिप्रभवो वर्त्तते, तानि चामूनि वेदपदानि-"स एष यज्ञायुधी यजमानोऽजसा स्वर्गलोकं गच्छत्ती"त्यादीनि, तथा "अपाम सोमं अमृता
... अथ सप्तम-गणधरस्य वृतांतं आरभ्यते
~82