________________
आगम
(४०)
[भाग-5] "आवश्यक - मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [-], नियुक्ति: [६१०-६१२], वि०भा०गाथा -1, भाष्यं [१३२...], मूलं -/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
26+M
प्रत सूत्रांक
4546
समवायस्यैवासिद्धत्वात् , न खलु वस्तुद्वयापान्तरालवी तत्सम्बन्धनिबन्धनभूतो जतुकल्पः क्वचित्समवायो नाम पदार्थः प्रत्यक्षादिप्रमाणविषयोऽस्ति ततः कथं तमस्तित्वेन मन्यामहे?, अन्यच्च-सोऽपि समवायः स्वसमवायिषु कथं वर्चत इति वाच्यं, | तदन्यसमवायबलादिति चेत्, ननु तत्रापि स एव प्रसङ्ग इत्यनवस्थानुषक्तिः, अथ स्वपरोभयसम्बन्धस्वभावः समवायो यथाद्र
स्वपरप्रकाशधर्मा प्रदीपः, तेनात्मानं स्वसमवायिभिः सह सम्बन्धयति स्वसमवायिनश्च परस्परमिति, तदप्यमनोरम, ४ विकल्पयुगलानतिक्रमात् , तथाहि-तौ हि स्वभावौ समवायाद्भिभौ वा स्यात् अभिन्नौ वा !, यद्याद्यः पक्षस्ततो न समदायस्य
तौ, सम्बन्धाभावात् , वस्त्वन्तरधर्मवत्, अथाभिन्नौ ततः समवाय एव तौ, तदव्यतिरिकत्वात् तत्स्वरूपवत्, कुतः स्वभावद्वयकल्पनेति भूतविषय प्रमाणाभावः, एवं विभ्रमे स्फुटीकृते भगवानुत्तरमाह-वेदपदानामर्थ न जानासि, शब्दात युक्ति भावार्थ च, तत्र तव संशयनिबन्धनानां वेदपदानामयमर्थ:-स्वप्नोपमं वै सकलमित्यादीनि अध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्य अनियतत्वात् अस्थिरत्वात् विपाककटुकत्वात् आस्थानिवृत्तिपराणि, न तु तदत्यन्ताभावप्रतिपादकानि, द्यावा पृथिवीत्यादीनि तु भूतसत्ताप्रतिपादकानि भवतोऽपि प्रतीतानि, ततो वेदसिद्धा सिद्धा भूतानां |
सत्ता, यदप्युक्तं-भूताभाव एव समीचीनस्तेषां प्रमाणेनाग्रहणादित्यादि तदप्यसम्यक्, भूतानां प्रत्यक्षादिप्रमाणसिद्धहै। त्वात् , तथाहि-द्विविधं परमाणूना रूप-साधारणमसाधारणं च, तत्र यदसाधारणं रूपं तेन चाक्षुषविज्ञाने न ते प्रति
भासन्ते, साधारणेन तु रूपेण प्रतिभासन्त एव, न च वाच्यं साधारणं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामपरमाणुत्वप्रसङ्गात्, परमाणुत्वेनापि तुल्यरूपत्वाभावाद्, अन्यथाऽस्मदभ्युपगमप्रसक्तः, अथ यदेतत्परमा
दीप
अनुक्रम
RECEM
~74~