________________
आगम
(४०)
[भाग-5] "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३
अध्ययनं -], नियुक्ति: [६०८], विभा गाथा [-], भाष्यं [१३२..], मूलं [-/गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
तजीवतस्सरीरंति संसओ नवि अ पुच्छसे किंचि । घेयपयाण य अत्थं न याणसी तेसिमो अत्यो ॥६०८॥
हे आयुष्मन् !-वायुभूते ! तवायं संशयो, यदुत-स एव जीवस्तदेव च शरीरमिति, नापि च पृच्छसि किश्चित् | विदिताशेपतत्त्वं महक्षणं क्षोभात् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिवन्धना, तेषां च वेदपदानामर्थ न जानासि पातेन संशयं कुरुषे, तेषां च तव संशयनिवन्धनानां वेदपदानामयमों-वक्ष्यमाण इति गाथार्थः। तानि चामूनि परस्प+रविरुद्धानि बेदपदानि-विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविनश्यति, न प्रेत्य संज्ञाऽस्ति' इत्यादि,
तथा-'सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्य ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादि। च, पतेषां चायमर्थजव बुद्धौ प्रतिभासते-न देहात्मनो दसंज्ञास्ति, विज्ञानपनेत्यादीनां व्याख्या पूर्ववत् , नवरं न प्रेत्य। संज्ञाऽस्ति भूतसमुदयमात्रधर्मत्वाच्चैतन्यस्य, तेन चामूनि किल शरीरातिरिकात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्यस्तपसा होप' इत्यादीनि तु दहातिरिक्तात्मप्रतिपादकानि ततः संशया, युका च भूतसमुदायमात्रधर्माता चेतनायाः, तस्याः भूतसमुदायमात्र एवोपलम्भातू गौरतादिवत्,प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आरमा इति,तत्र वेदपदानां चाथ 121 न जानासि, चशब्दात् युक्तिहृदये च, तेषामयमर्थः-तत्र विज्ञानघनेत्यादीनां वेदपदानामर्थः प्रागेव व्याख्यातः, सत्येन लभ्य इत्यादीनि तु सुप्रतीतानि भूतातिरिक्तात्मप्रतिपादकानि, तथाहि-सत्येन-सत्यवचनेन तपसा-अनशनादिरूपेण ब्रह्मचर्येण च स्फुट नित्यं-नियमेन ज्योतिर्मयो-ज्ञानमयः शुद्धो भवति, यं तथाभूतमात्मानं धीराः-परमज्ञानकलिता यतयो-महर्षयः संयतात्मानो-ध्यानैकनिषण्णाः पश्यन्ति, न च चेतनाया भूतसमुदायमात्र एवोपलन्भात् भूतधर्माता।
दीप
अनुक्रम
mai
JanEtacncionematiana
~70~