________________
आगम
(४०)
प्रत
सूत्रांक
[H]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [−], निर्युक्ति: [ ५६२-५६४ ], वि० भा० गाथा [ - ], भाष्यं [११७-११९], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
कारयके श्रीमलय- x समवसरणे
॥ ३०५ ॥
Jan Edition!
इंतं महिहिअं पणिवयंति द्वियमवि वयंति पणमंता । नवि जंतणा न विकहा न परूप्पर मच्छरो न भयं ५६२ ये अल्पर्द्धयो भगवतः समवसरणे पूर्वनिषण्णास्ते आगच्छन्तं महर्द्धिकं प्रणिपतन्ति, अथ महर्द्धिकाः प्रथमं समवसरणें निषअण्णास्ततः पश्चात् ये अल्पद्धिकाः समागच्छन्ति ते तान् पूर्वस्थितान् महर्द्धिकान् प्रणिपतन्तो ब्रजन्ति, तथा तेषां नाऽपि तथा| स्थितानां यन्त्रणा - आयत्तता नापि विकथा न च परस्परं मत्सरो, नापि विरोधिनामपि सत्त्वानां परस्परं भयं च भगवतोऽनुभावात् ॥ एतत्सर्वं प्रथमप्राकारान्तरे व्यवस्थितम् अथ द्वितीयप्राकारान्तरे तृतीयप्राकारान्तरे च किं व्यवतिष्ठते इत्याहबिइयम्मि हुति तिरिया तइए पायारमंतरे जाणा । पायारजढे तिरियावि हुंति पत्तेअ मिस्सा वा ॥ ५६३ ।। द्वितीयप्राकारान्तरे भवन्ति तिर्यञ्चः, तथा तृतीयप्राकारान्तरे यानानि, प्राकारजढे - प्राकाररहिते वहिरित्यर्थः, तिर्यथोऽपि भवन्ति, अपिशब्दात् मनुष्यदेवा अपि ते च प्रत्येकं कदाचिद्भवन्ति-कदाचित्तिर्यच एव कदाचिन्मनुष्या एव कदाचिदेवा एव, तथा कदाचिन्मिश्रा वा एते व प्रत्येकं मिश्रा वा प्रविशन्तो निर्गच्छन्तश्च वेदितव्याः ॥ गतं समवसरणद्वारम् अधुना द्वितीयद्वारप्रतिपादनार्थमाह
सर्व्वं च देसविरहं सम्मं घेच्छ व होड़ कहणा उ । इहरा अमूढलक्खो न कहेइ भविस्सइ न तं च ॥ ५६४ ॥ विरतिशब्द उभयत्रापि सम्बध्यते, सर्व-सर्वविरतिं देशविरतिं सम्यक्त्वं वा ग्रहीष्यति, वाशब्दस्य व्यवहितः सम्बन्धः, ततः कथना कथनं भगवतः प्रवर्त्तते, 'इहर'त्ति इतरथा अमूढलक्ष्या समस्तज्ञेया विपरीतवेदनाः, किं १ न | कथयति । आह— यद्येवं समवसरणकरणप्रयासो विबुधानामनर्थकः, कृतेऽपि नियमतोऽकथनादित्यत आह-भविष्यति
For Pevato & Personal Use Only
~33~
देवादीनां
व्यवस्था
प्राकारा
बहिः
॥ ३०५ ॥