SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-5] "आवश्यक"- मूलसूत्र-१ (नियुक्ति:+वृत्ति:) ३ अध्ययनं [१], नियुक्ति: [८०९], विभा गाथा -], भाष्यं [१५०...], मूलं - /गाथा-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [१] आवश्यकनियुक्ति: एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक हाराणुसारओ सेसया पयाहिणओ। अट्ठ य तिरियदिसाओ उहुं विमला तमा वाऽहो॥१॥ऐन्द्री दिक् विजयद्वारानुसारतः प्रतिपत्तव्या, यत्र विजयदारं सा ऐन्द्रीति भावार्थः, शेषाः सप्त ऐशानीपर्यन्तास्तस्याः प्रदक्षिणात:-प्रादक्षिण्येन बोद्धव्याः, ताश्च तथैव प्राग्भाविताः, एताश्चाष्टावपि रुचकात् (तिर्यक) प्रव्यूढत्वात् तिर्यग्दिश इति व्यवहियन्ते, रुचकादूई प्रवृत्ता विमला, रुचकस्याधः प्रवृत्ता तमा इति । उक्ता क्षेत्रदिक्, सम्प्रति तापक्षेत्रदिकू वक्तव्या, तत्र तपनं.तापः सूर्यकिरणस्पोजनितः प्रकाशात्मकः परितापः तदुपलक्षितं क्षेत्रं तापक्षेत्रं तदेव दिक्, अथवा तापयतीति तापः-सविता तदनुसारेण क्षेत्रात्मिका दिक्तापक्षेत्रदिकू, सा च सूर्यायत्तत्वादनियता, तथा चाह-जेसि जत्तोसुरो उदेह तेसिं तई हवइ पुषा । ताबक्खित्तदिसाओ पयाहिणं सेसयाओसिं ॥१॥ (आचा. नि. ४१) येषां-भरतादिक्षेत्रनिवासिनो मनुष्याणां यतो-यस्यां दिशि सूर्य उदेति-उद्गच्छति सा तेषां पूर्वा भवति, पूर्वेति व्यवहियते, तासां चैवमनियतानां पूर्वदिशा प्रदक्षिण-पादक्षिण्येन शेषा अपिआग्नेय्यादिकास्तापक्षेत्रदिशः प्रतिपत्तव्याः, एवं च सति सर्वेषामपि भरतैरावतपूर्वविदेहापरविदेहवास्तव्यानां मनुष्याणां मेरुरुत्तरतो लवणसमुद्रो दक्षिणतः, उक्का तापक्षेत्रदिक्, साम्प्रतं प्रज्ञापकदिग वाच्या, तत्र प्रज्ञापयति-सूत्रार्थ प्ररूपयति शिष्येभ्य इति प्रज्ञापको-व्याख्याता तदाश्रयेण दिक प्रज्ञापकदिक, तत्स्वरूपनिरूपणार्थमाह-पन्नवओ जयभिमुहो सा पुषा सेसिआ पयाहिणओ। तस्सेवऽणुगन्तधा अग्गेआई दिसा नियमा॥शा प्रज्ञापको यस्या दिशोऽभिमुखस्तिष्ठति सा पूर्वा, शेषास्त्वाग्नेय्यादिका दिशो नियमात् तस्यैव प्रज्ञापकस्य प्रदक्षिणातः-प्रादक्षिण्येनानुगन्तव्याः। उक्का प्रज्ञापकदिक, सम्प्रति भावदिय वकव्या, सा चाष्टादशविधा, दिश्यते अयममुकासंसारीति यया सादिक भावः पृथिवीत्वादिलक्षणः पर्यायःस दीप अनुक्रम - ॐ मा.स.७४ ~300~
SR No.035065
Book TitleSavruttik Aagam Sootraani 2 05 Aavashyak Niryukti evam Vrutti Aagam 40 Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages327
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy