________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ निर्युक्तिः [ ७९१], वि०भा० गाथा [-],
अध्ययनं [१],
भाष्यं [ १४९...], मूलं [- /गाथा - ]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीभाव
श्यक मल
य० वृत्ती उपोद्घाते
॥४३१॥
मिति, एवं चोपशान्तमोहादीनां सामायिकत्वप्रतिक्षेपः तेषां यथोक्तलक्षणक्रियारूपाया यतनाया असम्भवात्, नैग| मस्त्वनेकगमत्वादेव प्राग्वत् सामायिकमिच्छन् भावनीयः ॥ सम्प्रति यदुक्तं- 'तं खलु पच्चक्खाणं आत्राए सबदवाणंति, तत्र साक्षान्महाव्रतरूपं चारित्रसामायिकमधिकृत्य सर्वद्रव्यविषयतामुपदर्शयति
पदमम्मि सहजीवा बीए चरिमे अ सङ्घदवाई । सेसा महवया खलु तदिकदेसेण दद्वाणं ॥ ७९१ ॥ तत्र साक्षान्महात्रते विषयद्वारेण चिन्त्यमाने (प्रथमे प्राणातिपातविरमणरूपे आद्ये महाव्रते ) सर्वजीवाः - त्रसस्थावरसूक्ष्मेतरभेदा विषयत्वेन द्रष्टव्याः, तस्य तदनुपालनरूपत्वात्, द्वितीये मृषावादविनिवृत्तिरूपे घरमे च परिग्रहविनिवृत्तिलक्षणे सर्वद्रव्याणि विषयत्वेनावगन्तव्यानि कथमिति चेत्, नास्ति पञ्चास्तिकायात्मको लोक इति हि मृषावादः सर्वद्रव्यविषयः, तन्निवृत्तिरूपं च द्वितीयं महाव्रतं, तथा परिग्रहोऽपि मूर्च्छाद्वारेण समस्तद्रव्यगोचरः, तन्निवृत्तिरूपं च पञ्चमं महाव्रतम्, अतो द्वे अप्य दोषद्रव्यविषये, 'सेसा' इत्यादि, खलुशब्दोऽवधारणे, तस्य च व्यवहितः सम्बन्धः, शेषाणि महाव्रतानि द्रव्याणां विषये तदेकदेशेनैव भवन्तीति क्रियाध्याहारः तेषां द्रव्याणामेकदेशस्तेनैव हेतुभूतेन भवन्ति, नतु समस्तद्रव्यविषयाणि कथं ?, तृतीयस्य ग्रहणधारणीयद्रव्यादत्तादानविरतिरूपत्वात् चतुर्थस्य 'रूवेसु वा रुवसहगएसु वा दबेसु' इत्यादिवचनतो रूपरूपसहगतद्रव्यसम्बन्ध्यब्रह्मविरतिरूपत्वात् षष्ठस्य च रात्रिभोजनविरमण रूपत्वादिति, एवं तावच्चारित्रसामायिकं निवृत्तिद्वारेण सर्वद्रव्यविषयं श्रुतसामायिकमपि श्रुतज्ञांनात्मकत्वात् सर्वद्रव्यविषयमेव, सम्यक्त्वसामायिकमपि सर्वद्रव्याणां सगुणपर्यायाणां विषये श्रद्धानं तद्रूपत्वात् सर्वविषयमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः ॥ तत्र सामायिकमजीवादिन्युदासेन जीव एवेत्युक्तं, जीवश्च
••• अत्र चारित्र - सामायिकं अधिकृत्य सर्व द्रव्य एवं पर्याय-विषय दर्शयते
& Personal Use Only
285
सामायि
काख्यविषयः
॥४३१॥