________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३ निर्युक्तिः [७८२-७८३] वि० भा० गाथा [२६०७-२६०९],
अध्ययनं [-],
भाष्यं [ १४७-१४८], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
प्रज्ञाप्यमानोऽपि मिथ्यात्वोदयात् कुलिङ्गभावो जिनमतमश्रद्धधानश्चीवराणि परित्यभ्योपाश्रयाद्विनिर्गतः, तस्योत्तरा भगिनी, सा उद्याने स्थितं वन्दितुमागता, तं च तथाभूतं दृष्ट्वा तयापि चीवराणि तदनुरागेण परित्यक्तानि ततो द्वावपि तो भिक्षार्थं प्रविष्ट, गणिकया च तदवस्था दृष्टा, साऽचिन्तयत्- नूनमेवं स्त्रीणां बीभत्सं रूपं दृष्ट्वा ठोकोऽस्माकं विरक्तो भविष्यतीति, ततस्तया सा परिपूर्ण परिधापिता, सा नैच्छदिति मुक्तवती, ततो बलादपि तस्या उरसि कटिप्रदेशे चैकं वस्त्रं सन्दधे, तदपि त्यजन्ती भ्रात्रा कथमपि दृष्ट्वा भणिता- तिष्ठत्वेतत्तव देवतया दत्तम् आह च भाष्यकृत् - "तस्स भगिणी समुज्झियवस्था तह चैव तदणुरागेण । संपत्थिया नियत्था तो गणियाए पुणो मुबइ ॥ १ ॥ तीए पुणोवि बद्धोरसेगवस्था तयंपि छती । अच्छउ ते तेणं चिय समणुष्णाया धरेसी य ॥ २ ॥” (वि. २६०७-८ ) तेन शिवभूतिना द्वौ शिष्यो प्रब्राजितौ-कौण्डिन्यः कोट्टवीरश्थ, ततः परम्परास्पर्शः समुत्पन्नः, उत्तंच - "कोडिन्नकोट्टवीरे पद्मावेसी य दोन्नि सो सीसे । ततो परंपराफासतो व सेसा समुप्पन्ना ॥ १ ॥” (वि. २६०९ ) एवं बोटिका उत्पन्नाः, अमुमेवार्थी मूलभा| व्यकारः सजिहीर्षुराह
कहाए पन्नन्तं थोडिअ सिवभूहउत्तराहिं इमं । मिच्छादंसणमिणमो रहवीरपुरे समुत्पन्नं ॥ १४७ ॥ (मू. भा.) ऊया - स्वतर्कबुद्ध्या प्रशतं प्रणीतं बोटिकं शिवभूत्युत्तराभ्याम् 'इणमो'ति एतच्च मिथ्यादर्शनं क्षेत्रतो रथवीरपुरे समुत्पन्नम् ।
बोडिअसिव भूईओ पोडिअलिंगस्स होइ उप्पत्ती । कोडिनकुहबीरा परंपरा फासमुप्पन्ना ॥ १४८ ॥ ( मू. भा० )
For Pevato & Personal Use Only
~274~