________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्ति:) ३
अध्ययनं [-], निर्युक्ति: [ ५४६-५४९ ], वि० भा० गाथा [-], भाष्यं [ ११४...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
टिट्ठाई सुरहिं जलथलयं दिवकुसुमनीहारिं । पयरिंति समंतेणं दसद्धवन्नं कुसुमवासं ॥ ५४६ ॥ अभियोग्या देवाः प्रकिरन्ति समन्ततः सर्वासु दिक्षु विदिक्षु च दशार्द्धवर्ण - पञ्चवर्ण कुसुमवर्ष, किंविशिष्टमित्याह'वृन्तस्थायि' वृन्तमघोभागे पत्राण्युपरीत्येवंस्थानशीलं सुरभिगन्धोपेतत्वात् 'दिव्यकुसुमनिर्धारि दिव्यः-प्रधानः कुसुमानां निर्हारी- प्रबलो गन्धप्रसरो यस्मात् तत् दिव्यकुसुमनिर्धारि ॥.
मणि-कणग-रयणचित्ते, चउद्दिसिं तोरणे विउधिंति । सच्छतसालिभंजिअमयरद्वयचिंघसंठाणे ॥ ५४७ ॥ चतसृष्वपि दिक्षु मणिकनकरत्नविचित्राणि तोरणानि व्यन्तरा देवा विकुर्वन्ति, किंविशिष्टानीत्याह-छत्रं प्रतीतं, शालभञ्जिकाः-स्तम्भपुत्रिका मकरेति -मकर मुखोपलक्षणं ध्वजाः- प्रतीताः चिह्नानि -स्वस्तिकादीनि संस्थानम्-अत्यद्भुतो रचनाविशेषः सन्ति-शोभनानि छत्रशालभञ्जिकामकरध्वज चिह्नसंस्थानानि येषु तानि तथोच्यन्ते । तिन्निय पायारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसयविभूसिए ते विउति ॥ ५४८ ॥ तत्र समवसरणे ते वक्ष्यमाणाः सुरगणेन्द्रास्त्रीन् प्राकारवरान् रलविचित्रान् - मणिकाञ्चनकपिशीर्षकविभूषितान् विकुर्वन्ति, भावार्थ उत्तरगाथायां व्याख्यास्यते । सा चेयम्अग्निंतर मज्झ बहिं विमाणजोइसभवणाहिब कया उ । पायारा तिन्नि भवे रयणे कणगे य रयए य ॥ ५४९ ॥ अभ्यन्तरे मध्ये वहिः विमानज्योतिर्भवनाधिपकृताः प्राकाराखयो भवन्ति, रने कनके रजते च यथाक्रमं रक्षमयः
For Pevato & Personal Use Only
~26~