________________
आगम
(४०)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
H
[भाग-5] “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + वृत्तिः) ३
अध्ययनं [-], निर्युक्ति: [ ५४४ -५४५ ] वि० भा० गाथा [-], भाष्यं [ ११४...], मूलं [- / गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनिर्युक्तिः एवं मलयगिरिसूरिरचिता वृत्तिः
धरोऽन्यो वा तदभावे देशनां करोतीत्येष द्वारगाधासमासार्थः । विस्तरार्थं प्रतिद्वारं वक्ष्यामः तत्र नन्विदं समवसरणं यत्र भगवान् धर्म्ममाचष्टे तत्र नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारं व्याचिख्यासुरिदमाह-
॥३०१ ॥
जत्थ अपुहोसरणं जत्थ य देवो महडिओ एइ । वाउदयपुष्पवद्दलपागारतिअं च अभिओगा ॥ ५४४ ॥ यत्र क्षेत्रे ग्रामे नगरे वा अपूर्वम्- अभूतपूर्व समवसरणं भवति, यत्र वा भूतपूर्वसमवसरणे क्षेत्रे महर्द्धिको देव एति4 आगच्छति, तत्र किमित्याह - वातं रेण्वाद्यपनोदाय उदकं (उदक) बाद्दलं भाविरेणुसन्तापोपशान्तये, पुष्पवृष्टिनिमित्तं वाईलं पुष्पवाईलं तत् क्षितिविभूषणाय, वाईलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रिकं च, सर्वमेतत् अभियोगमर्हन्तीत्याभियोग्या देवाः कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियमः ॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, सम्प्रति विशेषेण प्रतिपादयति
मणि-कण - रयणचिन्तं भूमीभागं समंतओ सुरहिं । आज़ोअणंतरेणं करिंति देवा विचित्तं तु ॥ ५४५ ।। इह यत्र समवसरणं भवति तत्र योजनपरिमाणं क्षेत्रमाभियोग्या देवाः सम्वर्त्तकवातं विकुर्वित्वा तेन विशुद्धरजः | कुर्वन्ति, ततः सुरभिगन्धोदकवृष्ट्या निहतरजः, तत आयोजनान्तरेण - योजनपरिमाणं भूमिभागं मणयः - चन्द्रकान्ता| दयः कनकं देवकाञ्चनं रज्ञानि-इन्द्रनीलादीनि अथवा स्थलसमुद्भवा मणयो जलसमुद्भवानि रत्नानि तैश्चित्रं समन्ततःसर्वासु दिक्षु सुरभिं सुगन्धिगन्धयुक्तं, मणीनां सुरभिगन्धोदकस्य पुष्पाणां चातिमनोहारिगन्धयुक्तत्वात्, विचित्रम् - अपूर्व देवा अभियोग्याः कुर्वन्ति ॥
आवश्यके श्रीमलय
समवसर
For Pevato & Personal Use Only
~25~
चारगाथा देवकृत्यं
॥३०१॥